SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ २ सर्गः] हीरसौभाग्यम् । ४७ जगतां पातालभूमिस्वर्लोकानां जनानामसुरनरसुराणां न वाध्यनसौ वचनचित्ते अवगा. हते गोचरयतीत्येवंशीलस्तेन । वक्तुमशक्येनेत्यर्थः ॥ समाप्य कामान्मरुतां खदारुतां निरस्य तेषां च वरात्प्रसेदुषाम् । मिषादमुष्येप्सितदित्सया विशामिवावनौ स्वःफलदोऽवतीर्णवान् ॥ ८॥ इभ्यो भातीति संवन्धः । उत्प्रेक्ष्यते-अमुष्य व्यवहारिणो मिषाहम्भादवनौ पृथि. व्यामवतीर्णवानागतः स्वःफलदः कल्पवृक्ष इव । कया । विशां नरेन्द्राणामीप्सितानां कामितानां मनोभिलाषाणां. दित्सया दातुमिच्छया । किं कृत्वा । मरुतां देवानां कामान्सर्वाभिलाषान्समाप्य संपूर्णीकृत्य । दत्त्वेत्यर्थः । पुनः किं कृत्वा । प्रसेदुषां स्वाभिलषितसकलार्थाभिगमेन प्रसन्नीभूतानां तेषां देवानां वरादिष्टप्रदानवचनात्स्वस्यात्मनो दारुतां काष्ठभावं निरस्यापाकृत्य ॥ अतिस्मरैतत्तनुकामनीयकैः सहाभ्यसूयां दधतौ निजश्रिया । अनौचितीक्रुद्धजगत्कृतार्कजावकारिषातां वडवासुताविव ॥९॥ निजश्रिया स्वरूपसौन्दर्यलक्ष्म्या अतिक्रान्तोऽनिर्जितः स्मरः कामो यैस्तादृशैरतस्य कुंराव्यवहारिणस्तनोः शरीरस्य कामनीयकै रमणीयताभिः । 'कामनीयकमधःकृतकामम्' इति नैषधे । सह सार्धमभ्यसूयामी| दधतौ बिभ्राणौ अर्कजौ अश्विनीपुत्रौ। उत्प्रेक्ष्यते-अनौचित्या अयुक्ततया क्रुद्धेन कुपितेन जगत्कृता ब्रह्मणा वडवासुतावश्वा. विवाकारिषातां कृतौ ॥ मिथः परिस्पर्धितया वदान्यतागुणैर्विजित्य व्यवहारिणामुना।। इमा अरक्ष्यन्त सुधाशधेनवः खगोधनस्योपधिनेव धामनि ॥ १० ॥ अमुना कुंरासाहनाना महेभ्येन स्वगोधनस्य निजगोकुलस्योपधिना कपटेन धामनि अर्थादात्ममन्दिरे इमाः सकलजगजनदृग्गोचराः सुधाशधेनवः कामगव्य इव अरक्ष्यन्त रक्षिताः । किं कृत्वा । वदान्यता दानशीलत्वं तस्या गुणैरुत्कर्षेः स्फूर्तिभिर्वा मिथः परस्परं परिस्पर्धितया समन्तात्स्पर्धनशीलत्वेन विजित्य पराभूय गृहे रक्षिताः ॥ सुपात्रसस्नेहगुणाग्यवृत्तिभृत्तमःप्रतीपः स्वकुलप्रकाशकृत् । प्रदीपदेश्योऽपि परं न धूमभाकुलं न चाध्यामलयत्कदापि यः ॥ ११ ॥ यो महेभ्यः प्रदीपस्य देश्योऽपि सदृशोऽपि सन्। 'देवं देवेन्द्रदेशीयम्' इति पाण्डवचरित्रे । परं केवलं कदापि कस्मिन्नपि प्रस्तावे न धूमभाक् न निषेधे कोपयुक्तो बभूव । धूमशब्देन कोपः । यथा भक्तामरस्तोत्रे-"निघूमवर्तिरपवर्जिततैलपूर-' इति । दीपस्तु धूमयुक्तः । च पुनः कदाचिदपि कुलं वंशमपवादादिना नाध्यामलयन मलिनीचकार । दीपस्तु यत्र रक्ष्यते तद्गृहं स्थानं वा श्यामलयति । 'कुलं कुल्यगणे गेहे देहे जनपदेऽन्वये' इत्यनेकार्थः । किंभूत इभ्यः । सु शोभनानि पात्राणि
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy