________________
१ सर्गः) . हीरसौभाग्यम् । मा कृथाः । अन्तस्तत्त्वविचारणान्धवधिरे तद्वानरेणाधुना रे माणिक्य तदेतदेव सुकृतं यणितं नाइमना ॥' इत्यत्र केवलमाणिक्यमेव । 'शिशुतरमहोमाणिक्यानामहर्मणिमण्डली' इति नैषधे । प्रत्यग्रकिरणपद्मरागाणामिति तदृत्तिः । उत्प्रेक्ष्यते-भूपं नृपतिं भर्तारमनुलक्षीकृत्य पुरश्रिया उद्गीर्णा अत एव प्रकटीभवन् प्रकटो जायमानः अनुराग इव ॥
प्रीतादुपास्त्याधिगता गिरीशान्निरङ्कनैकाङ्गविधानविद्या । प्रपञ्चिता कौतुकिना किमेषा चन्द्रेण यच्चान्द्रगृहच्छलेन ॥ १२१॥ कौतुकिना कुतूहलाकलितेन चन्द्रेण एषा प्रत्यक्षलक्ष्या । निर्गतोऽको लक्ष्म येभ्यस्तानि नैकानि बहूनि यान्यङ्गानि शरीराणि तेषां विधानं निर्माणं यस्यां तादृशी विद्या । यस्या नगर्याश्चान्द्रगृहाणां चन्द्रकान्तमणिमयमन्दिराणां छलेन कपटेन । किमुत्प्रेक्ष्यते-प्रपञ्चिता विस्तारिता । किंभूता विद्या । अधिगता प्राप्ता । कस्मात् । गिरीशादीश्वरात् । किंभूतात् । उपास्त्या नित्यसेवया प्रीतात् । प्रसन्नीभूतादित्यर्थः । संतुष्टात् ॥ इति गृहाः॥
यस्मिन्दिदीपे मधुदीपरूपश्रीगर्वनिर्वासिविलासिवृन्दैः। रूपस्मयं वीक्ष्य जयस्य तस्य मदच्छिदे कि विधिना प्रणीतैः ॥१२२॥ यस्मिन् पुरे मधुदीपस्य मदनस्य रूपश्रिया शरीरसौन्दर्यलक्ष्म्या गर्वमभिमानं निर्वासयन्ति निर्दलयन्तीत्येवंशीला ये विलासिनो भोगिनस्तेषां वृन्दानि तैर्दिदीपे चकासे । 'मधुदीपमारौ मधुसारथिस्मरौ' इति हेम्याम् । किमुत्प्रेक्ष्यते-जयस्येन्द्रपुत्रस्य रूपस्मयं निजाङ्गचङ्गिमगर्व वीक्ष्य दृष्ट्वा तस्य जयन्तस्य मदच्छिदे उन्मत्ततोच्छित्यै विधिना धात्रा कृतेः प्रणातैरिव ॥ मेरोः शिखाग्रावसथव्यथाभिरुत्तीर्य सातस्थितिमीहमानाः । यस्मिन्समेताः किमु नाकिशाखिनजा वदान्या व्यलसन्युवानः ॥१२३॥ यस्मिन् युवानस्तरुणा व्यलसन् शुशुभिरे । किंभूताः । वदान्या दानशीला दानशौण्डा वा । किमुत्प्रेक्ष्यते-शिखाग्रे शिखरोपरि य आवसथो वसतिः स्थानं वासस्तेनोद्भवन्तीभिः प्रकटाभिर्जायमानाभिर्व्यथाभिरतिभिः कृत्वा मेरोः काञ्चनाचलादवतीर्य भूमीमण्डले समेत्य सातस्थितिं सुखनिवासमीहमाना इच्छन्तो नाकिनां शाखिनो देवतरवः कल्पद्रुमास्तेषां व्रजा 'गणा यस्मिन् समेता इव संगता इव ॥
जितस्मरान्पौरजनान्निपीय मा तद्वषस्यन्त्यसती सती स्तात् । इतीव योषावपुषा स्ववर्म द्विषा मखस्य व्यतिसीव्यते स्म ॥१२४॥ मखनाम्नो दैत्यस्य द्विषा वैरिणा शंभुना । उत्प्रेक्ष्यते-इति हेतोर्योषावपुषा पार्वती. शरीरेण समं स्ववर्म निजशरीरं व्यतिसीव्यते स्म परस्परं स्यूतं योज्यते स्म । इति किम्। यत् जितो रूपाभिभूतः स्मरः कामो यैस्तादृशान् पौरजनान् नगरतरुणान् निपीय सादरमवलोक्य सती पार्वती तद्वृषस्यन्ती रागोद्रेकात् कामातुरा तेषां कामुकी भवन्ती सती सती असती व्यभिचारिणी मा स्तात् भवतातू ।। इति नागराः ॥