________________
(७२) मुनिचन्द्रसूरिषिरचितवृत्तिसमेतं शते त्रयस्त्रिंशदधिके, अङ्कतोऽपि २३३, एतदेव तत्र श्रेणिगतदेवावासमानमिति ॥ १५० ॥ अधुना यदा सर्वार्थसिद्धप्रस्तटादधोऽवतीर्य क्वचित्प्रस्तटे श्रेणिप्रतिबद्धविमानसङ्ख्यां एच्छेत्तदा किमुत्तरम् ? इत्याह
जावइयं इच्छेज्जा, तावइयं चउहि संगुणं काउं। . . एगं तत्थ छुभित्ता, तावइयाई विमाणाई ॥ १५१ ॥ यावत्प्रमाणं 'इच्छेत् ' श्रेणिसंस्थविमानपरिमाणजिज्ञासयाऽभिलषेत्. प्रस्टं तावत्प्रमाणं चतुर्भिः संगुणं कृत्वा तथा एकं तत्र क्षिप्वाः यल्लभ्यते तावन्ति विमानानि तत्र जानीहि । तथाहि-यदा कश्चित्सर्वाथसिद्धप्रस्तटादधस्तादवतीर्य पञ्चमे प्रस्तटे विमानाग्रमधिगन्तुमिच्छति तदा तत्प्रतरसङ्ख्यां पञ्चकलक्षणां चतुर्गुणामेककयुतां कुर्याज्जातैकविंशतिः, इदमेव तत्र विमानप्रमाणमिति ॥ १५१ ॥ इदानीं सर्वार्थसिद्धिप्रस्तटादध एकेनैव गाथासूत्रेण प्रस्तटप्रमाणाद्विमानप्रमाणं विमानप्रमाणाच्च प्रस्तटप्रमाणं निर्दिदिक्षुराह
इच्छा चउसंगुणिया, रूवजुया पत्थडे तति- विमाणा। रूवूणा य विमाणा, चउभइया पत्थडं जाण ॥ १५२ ॥ 'इच्छा' पञ्चकादिरूपा चतुःसंगुणिता सती रूपयुता .कार्या, ततः 'प्रस्तटे' पञ्चमादौ ' तइ ' त्ति तावन्ति विमानानि भवन्ति । भावना चास्यानन्तरोक्तैवेति । रूपोनानि च विमानानि पुनश्चतुर्भिर्भतानि 'प्रस्तटं' प्रस्तटसंख्यां जानीहि, तथाहि-कश्चिदेकविंशतिं विमानान्युपदर्य वदेत् क्व प्रस्तटे एतानि लभ्यन्ते ? तदैकविंशतेरेकमपनीय शेषस्य चतुर्भिर्भागोऽपहियते लब्धाः पञ्च, ततो ज्ञायते पञ्चमप्रस्तटे एतानि विमानानि । एवं शेषेष्वपि प्रस्तटेषु भावना कार्येति