________________
(७०) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं इत्यर्थः 'ये' केचन चित्ररूपाः सन्ति' विद्यन्ते 'लोके ' जगत्रयलक्षणे, ततः किम् ? इत्याह-'तन्नामकाः'' इष्टसुभगपदार्थसार्थसदृशाभिधानाः 'विमानाः ' प्रकीर्णकाभिधानास्त्रिदशावासाः भवन्ति 'वैमानिकसुराणां' सौधर्मादिदेवलोकवर्तिवृन्दारकाणामिति ॥ १४७॥ इदानीमावलिकाप्रविष्टविमानप्रमाणानयनाय करणमभिधित्सुस्तदुपयोगिनी परिभाषां तावदाह- .
. :. पंचेव. हवदि आदी, चत्तारि य उत्तरं मुणेयत्वं । .
बावहिमेव गच्छो, बिमाणवलि तत्तिया चेव ॥ १४८ ॥ ‘पञ्चैव' विमानानि विजयादीनि सर्वार्थसिद्धयभिधानप्रस्तटगतानि भवन्ति ' आदिः ' प्रारम्भः । ‘चत्तारि' त्ति चत्वारश्च 'उत्तरं' वृद्धिः प्रतिप्रस्तटं 'मुणितव्यं' बोद्धव्यम् । तथा द्वाषष्टिरेव गच्छः, 'गच्छः' निखिलप्रस्तटप्रमाणलक्षणो मुणितव्यः । तथा 'विमाणवलि ' त्ति विमानावलयः-प्रत्येकं पूर्वाद्विदिग्गता विमानश्रेणय ऊर्ध्वाधोभागे चिन्त्यमानाः ' तावत्य एव ' द्वाषष्टिरूपा एव । यच्च विनयादीनामेकैकत्वेऽपि श्रेणित्वमुच्यते तत्पूर्वादिदिगाश्रितत्वेन श्रेणिगतविमानसदृशत्वात् । एवं नरकेन्द्रकेष्वपि “ पञ्चेव हवइ आई " इत्यादि ( ४५.) गाथाव्याख्याने कालादीनां श्रेणिगतनरकावासत्वं वाच्यमिति ॥ १४८ ॥ अथ करणमाह
गच्छुत्तरसंवग्गे, उत्तरहीणम्मि पक्खिवे आदि। अंतिमधण आदिजुयं, गच्छद्धगुणं तु सम्बधणं ॥ १४६ ।। गच्छोत्तरयोः-द्वापष्टिचतुष्टयरूपयोः संवर्ग:-परस्परगुणना गच्छोसरसंवर्गस्तत्र, किम् ? इत्याह–'उत्तरहीने' चतुष्टयशून्ये 'प्रक्षिपेत्'