________________
नरकेन्द्रप्रकरणम्।
(५१) बिसहस्सूणा पुढवी, सगपयरेहिं तिसहस्सगुणिएहिं ।
ऊणा रुखूणियपयरमाइया पत्थडंतरयं ॥ १०३ ॥ द्वाभ्यां सहस्राभ्यां बाहल्यमपेक्ष्येति गम्यते, ऊना 'पृथ्वी ' रत्नप्रभादिका कृता सती 'स्वकपतरैः' निजप्रस्तटैः, कीदृशैः ? इत्याहत्रिसहस्रगुणैरूना, तथा रूपोनितप्रतरभाजिता, किम् ? इत्याह'प्रस्तटान्तरकं' प्रस्तटात्प्रस्तटस्यान्तरालं भवति । यथा-रत्नप्रभायां लक्षमशीतिसहस्राधिकं बाहल्यम् , तच्चाधस्तनेनोपरितनेन च सहस्रेणोनं कृतं जातमष्टसप्ततिसहस्राधिकं लक्षम्, तदनु त्रयोदशसु स्वप्रस्तटेषु त्रिसहस्रगुणितेप्वपनीतेषु योऽवशिष्टो राशिस्तस्य स्वप्रस्तटप्रमाणेन रूपोनेन भागे हृते लब्धं योजनानामेकादश सहस्राणि पञ्चशतानि त्र्यशीतानि, अङ्कतोऽपि ११५८३, अवशिष्टमिदं- उभयस्यापि च• तुर्भिरपवर्तने संपन्नो योजनत्रिभागः, स चायं } । एवमन्यास्वपि प्रस्तटान्तराण्यानेतव्यानीति ॥ १०३ ॥ यदभिप्रायेण स्वप्रतरैस्त्रिसहसगुणितैरित्युक्तं तदभिप्रायप्रकाशनायाह
. हेढा घणा सहस्सं, उप्पिं संकुय सहस्समेगं तु । . . . मज्झे सुसिर सहस्सं, तिपिण सहस्सूसिया णरया ॥१०४॥
'अधस्तात् ' तलभागे 'घनाः' निश्छिद्राः सहस्रं यावद्योजनानां सर्वेऽपि नरकावासाः। 'उम्पिति उपरि संकुचन्तीति मंकुचाः संकुचिता इत्यर्थः सहरे 'एकंतु' एकमेव । तथा 'मध्ये' मध्यभागे 'शुषिराः' रन्ध्रभावभाजः सहस्रम् । एवं त्रीणि सहस्राणि उच्छ्रिताः' प्रत्येकं त्रिसहसबाहल्या इत्यर्थः 'नरकाः' इति नरकावासप्रस्तटा इति ॥१०॥ संप्रति प्रतिष्टथिवि यत्प्रस्तटान्तरं तत्सूत्रकारः साक्षादेव दर्शयन् गाथापञ्चकमाह