________________
(४४) मुनिचन्द्रसूरिविरचितवृत्तिसमेत त्रिभिः ‘भक्तं' अपहृतं शोधनकयुतं 'चतुराहतं च' चतुर्भिर्गुणितं पुनः 'वृत्तादि' वृतत्र्यस्रचतुरस्रनरकावासप्रमाणं स्यात् 'रत्नायां' रत्नप्रभायामिति ॥ ८॥ एवमपि कृते यथा वृत्तनरकावासप्रमाणं परिपूर्ण संपद्यते तथाऽभिदधानः सर्वष्टथ्वीप्वप्ययमेव क्रम इति प्रतिः । पादयन्नाह
दिसि विदिसाण समासे, मज्झिमनरइंदएहि सव्वगं । पुढवीए पुढवीए, वट्टा तंसा य चउरंसा ॥८६॥ दिशां विदिशां च संबन्धिनो ये वृत्तादयो नरकावासास्तेषां समासे पूर्वोक्तक्रमेण कृते सति मध्यमनरकेन्द्रकैः सह सर्वाग्रं वृत्तनरकाचासानां भवति । यथा रत्नप्रभायां तथा 'पृथ्व्यां पृथ्व्यां' शर्कराप्रभादिकायां वृत्तारूयस्राश्चकारो भिन्नक्रमे ततश्चतुरस्राश्च नरंकावासा भवन्ति ॥ ८९ ॥ अयमस्य गाथाद्वयस्य भावार्थ:• यथा रत्नप्रभायां सप्तनवतिर्मुखं ९७ त्रिसप्ततिर्भूमिः ७३, ततो मुखभूमिसमासार्डे जाता पञ्चाशीतिः ८५, अस्यां च, त्रयोदशलक्षणाचलम्बकगुणितायां जातान्येकादशशतानि पञ्चाधिकानि ११०५, एतेभ्यश्च शोधनके पञ्चविंशतिलक्षणे शोधिते जातं १०८०, अस्य च त्रिभिर्भागे लब्धानि त्रीणि शतानि षष्टयधिकानि ३६०, एतच्च वृत्तत्र्यनचतुरस्रसंज्ञितेषु त्रिपु स्थानेषु स्थाप्यते, ततश्च शोधनकस्यापि पञ्चविंशतिलक्षणस्य त्रिभिर्भागो दीयते, लब्धोऽष्टक एकश्यात्रावशिष्टः, स चाष्टकस्त्रिपु स्थानेषु स्थाप्यते, तत्र च द्वावष्टको त्र्यनेषु क्षिप्येते, एकश्च चतुरस्रेषु, यश्चैककोऽवशिष्टः सोऽपि त्र्यस्रेषु क्षिप्यते, ततो राशित्रयं चतुष्ककेण गुण्यते, पश्चात्प्रथमराशौ त्रयोदशेन्द्रकाः