________________
(४०) मुनिचन्द्रसूरिविरचितवृत्तिसमेत दीयते, लब्धश्चतुष्कक एकश्चावशिष्टः, स च चतुष्ककस्त्रिपु स्थानेषु स्थाप्यते, तत्र च द्वौ चतुष्को त्र्यनेषु क्षिप्येते एकश्च चतुष्कश्चतुर- . स्रेषु, यश्चैकोऽवशिष्टः स त्र्यस्त्रेषु क्षिप्यते, ततो जातं रत्नप्रभायां पूर्व-. . दिग्गतवृत्तादिराशित्रयम् , तच्चेदम्-१८२-१९१-१८६। यदा चतुदिगपेक्षया चिन्त्यते तदैतदेव राशित्रयं प्रत्येकं चतुर्भिर्गुण्यते, ततश्च . वृत्तादीनां सर्वाग्रं भवति, तच्चाग्रे स्वयमेव शास्त्रकारः प्रतिपादयिप्यति। . विदिक्षुः पुना रत्नप्रभाप्रथमप्रस्तटे ऐशान्यामष्टचत्वारिंशन्नरकावासाः, . तेऽप्येकैकहान्या दिग्गतनरकावासक्रमेण स्थाप्यन्ते यावत् षट्त्रिंशत् ,. ततश्चैतेषु राशिषु प्रत्येकं त्रिभिर्भक्तेषु लब्धमवशिष्टं यथाक्रमम्०-२-१-०-२-१-०-२-१-०-२-१-० । एवं चतुर्णा द्विकानामेककानां च मीलने द्वादशरूपं शोधनकं भवति, शेषं सर्व दिग्वद्वोदव्यम् । एवमन्यास्वपि पृथ्वीषु सर्वा करणभावना कार्येति ॥ ___संप्रति प्राक्करणेन साधितान् वृत्तादिनरकावासान् प्रतिष्टथिवि गाथाषट्केन कथयन्नाह
अडवीसा चोसट्ठा, चोयाला सत्त सत्त य सया उ । बारस चोयालाया, अडवीसहिया उ विदिसासु ।। ७६ ॥
अष्टाविंशानि चतुःषष्टानि चतुश्चत्वारिंशानि, कानि ? इत्याहसप्त सप्त शतानि चशब्दतुशब्दौ पूरणार्थी । इदमुक्तं भवति-रत्नप्रभायामष्टाविंशानि सप्त शतानि वृत्तानाम् , चतुःषष्टानि सप्त शतानि त्र्यम्राणाम् , चतुश्चत्वारिंशानि सप्तैव शतानि चतुरस्राणां नरकावासानां दिक्षु सर्वाग्रं भवतीति । तथा 'बारस चोयालाया अडवीसहिय' ति द्वादशभिश्चतु गारिंशताऽष्टाविंशत्या चाधिकानि सप्त सप्त शतानीति संबध्यते,