________________
नरकेन्द्रप्रकरणम् ।
(१५)
पर्पटकपाचकः ४२ घातकः ४३ च तथैव स्फुटितः ४४ बोद्धव्यः । काल: ४५ क्षारश्च ४६ तथा लोलः ४७ तथा लोलपाक्षश्च ४८ । अत्र च गाथापञ्चके चादयः शब्दाः क्वचिद्गाथापूरणफलाः क्वचित्समुच्चया व्याख्येया इति ॥ ३० ॥ एवं पूर्वदिकश्रेणिनरकावासनामानि निर्द्दिश्य प्रस्तुते योजयन् शेषदिग्गत श्रेणिवृत्तान्ताभिधानायाहएवं पुरच्छिंमाए, दिसाएं निरयाण नाम निदेसो । सीमंतगसेढीसु उ, सेसासु इमं कर्म जाण ॥ ३१ ॥ 'एवम्' उक्तक्रमेण 'पौरस्त्यायां' पूर्वस्यां दिशि निरयाणां नामनिर्देश आवलिकाप्रविष्टानां कृतः । ' सीमन्तकश्रेणिषु तु ' सीमन्तकात्प्रवृत्तासु श्रेणीषु पुनः 'शेषासु' उत्तरपश्चिमदक्षिणदिग्भागव्यवस्थितासु 'इमं' वक्ष्यमाणं 'क्रम' परिपार्टि जानीहीति ॥३१॥ यथामज्झा उत्तरपासे, यावत्ता अंवरो मुणेयव्वा । सिट्टा दाहिणपासे, पुचिल्लाओ विभइयन्वा ॥ ३२ ॥ ' मध्याः ' मध्यशब्दोपपदा उत्तरपार्श्वे विलयविलात्मप्रभृतयो नरकावासा आवलिकाप्रविष्टा विज्ञेयाः । त एव 'आवर्त्ताः ' आवर्त्तोपपदाः 'अपरतः ' अपरस्यां दिशि मुणितव्याः । तथा ' शिष्टाः' इति शिष्टशब्दोपपदा विलयप्रभृतय एव दक्षिणपार्श्वे, किमुक्तं भवति ? - पौरस्त्यात् नरकावाससङ्घाताद् इच्छन्ति ( इत्थं त्रिः ) ' विभक्तव्याः ' नामान्यपेक्षा च ( क्ष्याव ) शेषदिग्वर्तिनो विभागवन्तो विधेया नरकावासाः । इदमुक्तं भवति —– पूर्वस्यां विलयो विलात्मा स्तनितः, एवमवशिष्टामानोऽष्टचत्वारिंशदपि नरका वाच्याः । उत्तरस्यां पुनर्मध्यविलयो मध्यविलात्मा मध्यस्तनित इत्यादि । अपरस्यामावर्तविलय आवर्तवि