________________
(१६६) मुनिचन्द्रसूरिविरचितवृत्तिसमेतं पमद्वयभावादिति । जघन्या त्वधस्तनानन्तरप्रस्तटगतोत्कृष्टा स्थितिः सर्वत्र वाच्येति । अयमत्र परमार्थः-यदा कश्चित्सौधर्मेशानपञ्चमप्रस्तटे उत्कृष्टां स्थितिं जिज्ञासति तदा द्वयोः सागरोपमयोस्त्रयोदशभिर्भागे हृते लब्धौ द्वौ सागरोपमत्रयोदशभागौ, स्थापना चेयम्-3 तयोश्च पञ्चभिर्गुणने जाता दश त्रयोदशभागाः, इयमेव तत्रोत्सृष्टा स्थितिरित्येवं प्रतिपाद्यते । एवं सर्वत्र प्रस्तटेषु भावना कार्येति ॥ ३६४ ॥ अथोपरितनकल्पेषु प्रतिप्रतरं स्थितिप्रमाणानयनाय करणमाह:-..
सुरकप्पठिइविसेसो, सगपयरविभाग इच्छसंगुणियो। .
हेडिल्लद्वितिसहिओ, इच्छियपयराज उक्कोसा ॥ ३६५॥ - ‘सुरकल्पस्थितिविशे(श्लेषः ' सागरोपमपञ्चकादिलक्षणस्तस्य च ' स्वकप्रतरविभागः ' स्वकैादशादिभिः प्रतरैस्तस्य विभागः क्रियत इत्यर्थः, ततो यत्तत्र लब्धं तद् ‘इच्छासंगुणितं' इष्टप्रतरसंख्यालक्षणयेच्छया ताडितं अधस्तनस्थितिसहितम्, किम् ? इत्याह-'इप्सितप्रतरात्' इष्टप्रतरमाश्रित्य ' उत्कृष्टा' उत्कर्षवती स्थितिर्भवति । इदमुक्तं भवति-यदा सनत्कुमारमाहेन्द्रयोस्तृतीयप्रस्तटे उत्कृष्टा स्थितिबोंडुमिप्यते तदा द्वयोः पञ्चाना(सप्तानां)च सागरोपमाणां विशे(श्लेषो ग्राह्यः, स पञ्चलक्षणः, तस्य च स्वकप्रतादशलक्षणैर्भागे लब्धाः सागरोपमद्वयलक्षणायां मीलितायां जातानि त्रीणि सागरोपमाणि त्रयं च द्वादशभागानामिति । एवं सर्वत्र भावना कार्येति ॥३६९॥ अथ करणलब्धां प्रतिप्रतरस्थितिं शास्त्रकृत्कण्ठत एव गाथाद्वादशकेनाह
दो अयरा उ जहण्णा, पढमे पयरे सणंकुमारस्स । दो अयरा उक्कोसा, वारस भागा उ पंचऽन्ने । ३६६॥ .