________________
(१३७) मुनिचन्द्ररिविरचितवृत्तिसमेत
गेविजेसुं दोगणी, एका रयणी अणुत्तरेसुं च । भवधारणिज एसा, उक्कोसा होइ णायला ॥ २६६ ॥ .
अवेयकेषु द्वौ रत्नी । एको रनिः लिङ्गव्यत्यश्च प्राग्वत् ‘अनुत्तरेषु.. च' विजयादिषु पुनः ‘भवधारणीया' भवं यावद्धार्यते. या सा तथा न पुनरुत्तरवैक्रियेति भावः, 'एषा' सप्तहस्तादिका उत्कृष्टा भवति ज्ञातव्या । जघन्या तु सर्वेषामप्यकुलासंख्येयभागमाना उत्पत्तिकाले लम्यते । यदा तु भवनपत्यादयोऽच्युतान्ता देवाः उत्तरवैक्रियं शरीरमारमन्ते तदा तदङ्गुलसंख्येयभागं जघन्यतः, उत्कृष्टतो योजनलक्षप्रमाणं भवति। 7वेयकानुत्तरसुराणामुत्तरवैक्रियशरीराभावाद्भवधारणीयमेव शरीरं भवतीति ॥ २९६ ॥ अथैनामप्यविशेषोक्तामवगाहनां सौधर्मादिप्वनुत्तरपर्यन्तेषु सागरोपमवृद्धिक्रमेण हीनां हीनतरां च दर्शयितुं गाथाष्टकेन करणमाह
कप्पानो कप्पम्मि उ, जस्स ठिई सागरोवमविसिट्ठा । उस्सेहो तस्स हवे, एकारसभागपरिहीणो ॥ २६७ ॥
'कल्पात् ' सौधर्मेशानद्वयादिलक्षणात्सकाशात् 'कल्पे' सनत्कुमारमाहेन्द्रादिलक्षणे ' यस्य ' देवस्य स्थितिः ‘सागरोंपमविशिष्टा' पूर्वकल्पसागरोपमेभ्यो यावद्भिः सागरोपमैरधिका 'उत्सेधः' शरीरप्रमाणं 'तस्य ! देवस्य भवेत् 'एकादशभागपरिहीणः' एकादशभागीकृतस्य हस्तस्य सप्तादिभिर्भागैरेकोत्तरवृद्धस्तावत्स्थानगतैर्वक्ष्यमाणक्रमेण परिहीण इति ॥ २९७ ॥ एतदेवं किञ्चिदू व्याचिख्यासुराह
कप्पादो कप्पम्मि उ, सोहम्माओ सणंकुमारादी । उकोसठितिविसेसो, स विसिहा सागरभहिया ॥२९८॥ .