________________
देवेन्द्रप्रकरणम्। (१०१) मुहभूमिसमासद्धं, वेहगुणं सोहणूण तिहि भइयं । पंचगुणदुगुणसोहणगसंजुयं उत्तरिल्लाणं ॥ २२८ ॥
इह किलायमभिप्रायः-द्वयोरप्यनयोर्देवलोकयोश्चतस्रो विमानश्रेणयस्तत्रैकैकस्यां श्रेण्यां त्रयस्त्रयो वृत्तादिविमानराशयः सन्ति समुदायेन च द्वादश । तेषु च दक्षिणदिग्वर्त्तिवृत्तादिराशित्रयं पूर्वापर[वर्तिवृत्तराशिद्वयं पौरस्त्यपाश्चात्ययोश्च त्र्यस्त्रचतुरस्त्रयो राश्योर ईमीलनेन निष्पन्नं राशिद्वयमिति सप्तराशयः शक्रस्याऽऽभवन्ति । शेषा औदीच्यास्त्रयो द्वौ च पौरस्त्यपाश्चात्यत्र्यस्त्रचतुरस्त्रराश्योराईमीलने निष्पन्नौ राशी इति पञ्चराशय ईशानस्याऽऽभाव्या इति । अमुमेव चाभिप्रायं मनाम निवेश्य सूत्रकारः [ सूत्र ]माह- . .
' मुखभूमिसमासाई ' प्रागेव निरूपितखरूपं ' वेधगुणं ' त्रयोदशप्रस्तटगुणितमित्यर्थः, शोधनकोनं त्रिभिर्भक्तं क्रियते, ततः सप्तगुणं . द्विगुणशोधनकवेधयुतं' द्विगुणेन शोधनकेन-अष्टाविंशत्येत्यर्थः,
वेधेन च-त्रयोदशलक्षणेन युक्तं सत् , चैवेति समुच्चये, “ याम्यानां' • याम्येन्द्रसंबन्धिनां श्रेणिगतविमानानां परिमाणं भवतीति ॥ २२७ ॥
- इयमपि गाथा पूर्वगाथावद् व्याख्येया । नवरं त्रिभिर्भागे हृते यल
भ्यते तत्पञ्चगुणं कर्त्तव्यमिति ॥ २२८ ॥ '.. ये (या) चात्र शोधनकस्य द्वयोरपि कल्पयोर्डिगुणस्य सतोर्योजना
क्रियते सा चतुर्दिक्संबन्धिनां चतुर्णा शोधनकानां मध्याद्दक्षिणोत्तरयोदिशोरेकैकस्य केवलस्य पूर्वपश्चिमयोश्च द्वयोः शुद्धयोर द्धस्य योजनेन एकप्रमाणशोधनकभावात् ॥ एकैकस्य कल्पस्य शोधनकद्वयलाभ इति कृत्वा करणद्वयमेव भावयितुं गाथाद्वयमाह