________________
देवेन्द्रप्रकरणम्। नैकत्रिंशद्रूपेण गुण्यते ततो जातान्येकोनविंशतिशतानि त्रिपञ्चाशदधिकानि, तेभ्यश्च शोधनकं त्रिषष्टिः शोध्यते ततो जातान्यष्टादशशतानि नवत्यधिकानि १८९०, अस्य च राशेस्त्रिभिर्भागे दत्ते लब्धानि षट शतानि त्रिंशदधिकानि ६३०, एतानि च वृत्तत्र्यस्त्रचतुरस्रलक्षणेषु त्रिषु स्थानेषु स्थाप्यन्ते, तदनु शोधनकस्यापि त्रिभिर्भागो दीयते लब्धा एकविंशतिः २१, इयमपि त्रिषु स्थानेषु न्यस्यते, ततो द्वे एकविंशती त्र्यस्रेषु क्षिप्येते एका च चतुरस्रेषु, एवं च कृते लब्धं यथाक्रममेकदिक्प्रतिबद्धवृत्तत्र्यनचतुरस्रविमानमानमिदम् –वृत्त० ६३० त्र्यस० ६७२ चतुरस्र० ६५१ । यदा त्वेतदेव राशित्रयं प्रत्येकं चतुर्भिर्गुण्यते वृत्तराशौ च द्वाषष्टिरिन्द्रकाः क्षिप्यन्ते तदा सर्वदेवस्थानप्रतिबद्धदिक्चतुष्टयवर्तिवृत्तादिविमानप्रमाणं भवतीति ॥ २०७ ॥ तदेव साक्षादभिधातुमाह- . __पणुवीसं बासीया, छब्बीसं चेव अट्ठसीयाई । __ छव्वीसं चउरहिया, वहादीयाण सव्वगं ॥ २०८ ॥ . . पञ्चविंशतिः शतानीति गम्यते द्वाशीतानि, षड्विंशतिश्चैवाष्टा
शीतिः, षड्विंशतिशतानि चतुरधिकानि, किम् ? इत्याह-वृत्तादीनां · विमानानां सर्वाग्रं भवतीति । २५८२ | २६८८ ॥२६०४ ॥२०॥ इत्थं वृत्तादिविमानप्रमाणं प्रत्येकं सामस्त्येन च प्रतिपाद्य संप्रति सौधर्मेशानयोः सनत्कुमारमाहेन्द्रयोश्च कल्पयोर्यानि विमानानि यस्येन्द्रस्याऽऽभवन्ति तत्प्रतिपादनायाहवावट्ठी आवलिया, पुरच्छिमा दक्खिणा य अवरा य । सकस्स पत्थडाणं, एसा आदी पढमयाए ॥ २०६॥