________________
मुनिचन्द्रसूरिविरचितवृत्तिसमेतं
''
स्वकीयस्वकीयदेवलोकप्रस्तटैः 'विरहितानि ' ऊनीकृतानि, किंविशिष्टैः ? इत्याह – 'रूपोनें:' रूपरहितैः, कानि ? इत्याह- 'मुखानि' आदय एच. भूमयो भवन्ति । तथाहि – सौधर्मेशानयोर्द्वाषष्टिर्मुखम् । तदेव सनत्कुमारमाहेन्द्रकल्पापेक्षया परप्रतरैः सौधर्मेशानसत्कैस्त्रयोदशभिर्विरहितं लब्धैकोनपञ्चाशद्रूपं तयोः कल्पयोर्मुखं भवति । इदमेव च ब्रह्मलोककल्पापेक्षया परप्रतरैः पूर्वकल्पद्वयसंबन्धिभिर्द्वादशभिर्विरहितं लब्धं सप्तत्रिंशद्रूपं तत्र कल्पे मुखं भवति । एवं सर्वत्र । तथा सौधर्मेशानस्वमुखं द्वाषष्टिरूपं स्वकप्रतरै रूपोनैः संपन्नद्वादशरूपैर्विरहितं लब्धं पञ्चाशद्रूपं भूमिर्भवति। एवं सनत्कुमारमाहेन्द्रकल्पयुगलकमुखमप्येकोनपञ्चाशल्लक्षणं स्वकपतरै रूपोनैः संपन्नैकादशरूपैर्विरहितं लब्धाष्टत्रिंशद्रूपं भूमिर्भवति । तथा ब्रह्मलोके स्वमुखं सप्तत्रिंशद्रूपं स्वकप्रतरै रूपोनैः संपन्नपञ्चकरूपैरूनीकृतं संपन्नद्वात्रिंशद्रूपं भूमिर्भवति । एवं सर्वत्र भावना कार्येति ॥ १८५ ॥ आह रत्नप्रभादिषु पृथ्वीषु दिक्षु विदिक्षु च [ यथा ष्टथक् ] पृथग् सुखभूमिप्रज्ञापनोपलभ्यते कल्पेष्वपि किं तथैव प्रज्ञापना उंत न ? इति (इत्याह ) -
( ८४ )
भूमी इमो, दिसाण नो एत्य होंति विदिसाणं । जेण दिसावलियाओ, देवेसु ण होंति विदिसासु || १८६ ॥
मुखभूमयः ' इणमो 'त्ति इमा अनन्तरमेव वक्ष्यमाणाः ' दिशां ' पूर्वादिलक्षणानां संबन्धिन्यो भवन्ति । व्यवच्छेद्यमाह - ' न तु ' न 'पुनः 'अ' देवलोकेषु भवन्ति विदिशां मुखभूमयः । कुतः ? इत्याह' येन ' कारणेन ' दिगावलिकाः ' दिश्वेव विमानश्रेणयः ' देवेषु '