________________
{४) मुनिचन्द्रसूरिविरचितवृत्तिसमेत ... मुहभूमिसमासद्धं, अोलंबगसंगुणं तु सम्पन्न । - वलए वलए य भवे, सुरणिलयाणं तु संखेवो ॥१६५॥
मुखभूम्योः-प्रतिकल्पं प्रागेवोक्तप्रमाणयोः समासः-मीलनं तस्याईदलं मुखभूमिसमासाई · अवलम्बकसंगुणं तु ' त्रयोदशद्वादशस्वप्रतरप्रमाणगुणितमेव, किम् ? इत्याह-' सर्वाय ' आवलिकागतसर्वविमानप्रमाणं भवति । सर्वकल्पानुयाय्ययं व्यवहार इत्याह-'वलये वलये' . वलयाकारव्यवस्थितप्रस्तटसंबन्धात्सौधर्मादिदेवलोके, चकारः पूरणार्थः, : भवेत् ' पूर्वोक्तकरणन्यायाजायेत ‘सुरनिलयानां तु ' श्रेणिप्रतिब-.
देवावासानां पुनः ‘संक्षेपः ' सर्वाग्रलक्षणः । तथाहि-सौधर्मेशानयोर्मुखमेकोनपञ्चाशदधिकशतद्वयलक्षणं २४९, भूमिश्चैकाधिकशतद्वयस्वमावा २०१, अनयोः समासः पञ्चाशदधिकानि चत्वारि शतानि ४५०, एतदई पञ्चविंशत्यधिक वे शते २२५, एतच्च त्रयोदशलक्षणावलम्बकगुणितं सजातं सर्वाग्रं पञ्चविंशत्यधिकैकोनत्रिंशच्छतलक्षणमिति २९२५ । एवं शेषेप्वपि स्वधिया भावना कार्येति ॥ १६५ ॥ अथ प्रकीर्णकविमानप्रमाणानयनायाह- . कप्पविमाणम्गाओ, सेढीवढे विसोहए सेसं। ' सयसयकप्पेसु भवे, पइयणगाणं परीमाणं ॥ १६६ ॥
'कल्पविमानानात् ' सौधर्मादौ यद्विमानाग्रं द्वात्रिंशल्लक्षादिलक्षणं ततः सकाशात्, किम् ? इत्याह-'श्रेणिबद्धानि' आवलिकाश्रितानि विमानानि 'विशोधयेत् ' अपनयेत् । तत्र च यद् ‘शेषं ' उद्धरितं तत् स्वकस्वककल्पेषु ' सौधर्मादिषु 'भवेत्' जायेत 'प्रकीर्णकानां' पुष्पावकीर्णाभिधानविमानानां प्रमाणम् । तथाहि-सौधर्मेशानयोः क