SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ - प्रकाशकीयम् संस्कृतपरम्परयाऽभ्यस्तवियोऽप्यहं १९५८तमे ख्रिष्टाब्दे कालक्रमेणं नालन्दापालित्रिपिटकप्रकाशनप्रतिष्ठानस्य वाराणसीशिविरे नियुक्तस्तत्रत्याधिकारिभिः। यद्यपि तत्र संस्कृतभाषायाः साहाय्येन पालिभाषाशब्दानां वाक्यानां चावबोधे नातिकाठिन्यं मयानुभूतम्, तथापि सौगतदर्शनं प्रति तु बाल एवाहमासम्। अथ यथा यथाहं तस्मिन् कर्मणि व्यापृतस्तथा तथा तज्ज्ञानं प्रति ममौत्कण्ठ्यम्प्रवर्धमानमेवाभूत्, अतो मया पालिसाहित्ये आचार्यपरीक्षा उत्तीर्णा । परन्तु तदा तत्परीक्षायां निर्धारितानि प्रायः सर्वाणि पुस्तकान्यनुपलब्धान्यासन्। यथाकथमपि कल्याणमित्राणां साहाय्येन सा परीक्षोत्तीर्णा । ततो हीनयानसिद्धान्तानां कथञ्चित् परिचये जाते महायानसाहित्याध्ययनार्थं मया प्रयतितम्। तदर्थं च वाराणसेयसंस्कृतविश्वविद्यालयसम्बद्धा बौद्धदर्शनाचार्यपरीक्षोत्तीर्णा। तस्यां परीक्षायां निर्धारिता बहवो ग्रन्थास्त्वद्यत्वेऽप्यनुपलब्धा एव, का कथा तस्य कालस्य! अतोऽध्ययनकाल एव मया दृढं निरणायि यत् सत्यवकाशे बौद्धसाहित्यस्य सौलभ्यार्थं कोऽपि प्रयत्नः करणीयः। .. वर्षद्वयात् पूर्वमहं केनापि कार्यविशेषेण नालन्दां गतवान्। तत्रत्यपुस्तकालये मया तत्त्वसंग्रहस्य कस्याश्चित् पुराणमातृकाया एका चित्रप्रतिकृतिर्दृष्टा । तां दृष्ट्वा हृष्टमानसेन मया तत्रत्याधिकारिणः प्रार्थितास्तस्या उपयोगार्थम्। तैर्निर्दिष्टोऽहं तत्रैवोषित्वा तां प्रतिकृतिमक्षरशो मासमधीतवान्। परं तत्र केषाञ्चित् पत्त्राणां प्रतिकृतिः स्पष्टा नासीदिति 'कुत इयं प्रतिकतिरागता' इत्येतद्विषये पृष्टास्तत्रत्याधिकारिणोऽपि न किञ्चित् प्रामाणिकमवाबोधयन्। अतोऽहंस्ततोऽनुमानबलेनैव राजस्थाने जैसलमेरं प्रति प्रायासम्। मम सौभाग्येनं तत्रत्यजिनभद्रसूरीश्वरज्ञानभाण्डागारे एका मातृकोपलब्धा, सा वस्तुतो नालन्दास्थचित्रप्रतिकृतेरुजीव्यभूता अस्तीति तद्भाण्डागारस्थाधिकारिभिः सेतिहासं ज्ञापितम्। अस्तु। तत्रोषित्वा मया पुनः सा मातृका अक्षरशः पठिताएवं तत्त्वसंग्रहस्य तन्मातृकाधारेण प्रायः शुद्धः पाठो निर्धारितोऽभूत्। तदनन्तरमस्य ग्रन्थस्य पुनः प्रकाशनाय पुनः पुनः सम्बोध्यमानोऽपि न कश्चन प्रकाशकोऽस्मिन् कर्मणि व्यापृतोऽभूत्। अन्ते मयैवैतत्साहसमाचरितम्, निरणायि च यद् बौद्धसाहित्यस्य.दुर्लभग्रन्थानां पुनर्मुद्रणार्थमेकं प्रतिष्ठान स्थापनीयम्, यत्रेमे तत्त्वसंग्रहसदृशाः सर्वेऽपि दुलर्भा बौद्धग्रन्था प्रकाशमाप्नुयुः । इत्येषा बौद्धभारतीपरिषदः स्थापना-भूमिः। ____ एवमितो बौद्धभारतीपरिषदो वयं सर्वाङ्गसौष्ठवसम्पन्नं कमलशीलपञ्जिकासनाथं तत्त्वसंग्रहाख्यमिमं प्रथमं दुर्लभं बौद्धग्रन्थं प्रकाश्य विदुषां करकमलेषु समुपाहरामः । अग्रेऽपि अन्यान् सुदुर्लभान् ग्रन्थान् प्रकाशयिष्याम इत्याशासाना वयं बौद्धदर्शने कृतभूरिपरिश्रमाणाम्, अनुरागमावहताञ्च विदुषामस्मिन् शुभे कर्मणि सर्वविधं साहाय्यं प्रार्थयामहे । ___ अन्ते चास्या बौद्धभारतीपरिषदः स्थापने, तत्त्वसंग्रहसम्पादनकर्मणि च येषां विदुषां योगः प्राप्तस्ते कृतज्ञानामस्माकं सर्वथा प्रणम्याः-इति विज्ञापयति। रक्षाबन्धनम्, २०२५ वै० प्रकाशकः - वाराणसी
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy