________________
१९६
श्राद्धविधिकौमुदीसक्षेपः त्वनियमित एव क्षणमपि तिष्ठेद्विरतेर्महाफलत्वादविरतेश्च बहुकर्मबन्धादिमहादोषादित्याद्युक्तं प्राक् । अत्र च ये नित्यनियमाः प्रागुक्तास्ते विशिष्य वर्षासु ग्राह्याः । तत्र द्वित्रिर्वा पूजाष्टभेदपूजा, सम्पूर्णदेववन्दनं, चैत्ये सर्वबिम्बानामर्चनं वन्दनं वा, स्नात्रमहमहापूजाप्रभावनादि, गुरोर्वृहद्वन्दनं, सर्वसाधूनां प्रत्येकवन्दनं, चतुर्विंशतिलोगस्सोत्सर्गः, अपूर्वज्ञानपाठादि, विश्रामणा, ब्रह्म, प्रासुकनीरं, सच्चित्तत्यागः, पर्युषित-द्विदल-पूपिकापर्पट-वटिकादि-शुष्कशाक-तन्दुलीयकादिपत्रशाक-टुप्परक-खारिकिखजूर-द्राक्षाखण्ड-शुण्ठ्यादीना फुल्लिकुन्थ्विलिकादिसंसक्ति सम्भवात्यागः । औषधादिविशेषकार्ये तु सम्यक्शोधनादियतनयैव तेषां ग्रहणम् । यथाशक्ति खट्वा-स्नान-शिरोगुंफन-दन्तकाष्ठोपानहादित्यागः । भूखननवस्त्रादि-रञ्जन-शकटादिखेटन-ग्रामान्तरगमनादिनिषेधः । गृहहट्ट-भित्तिस्तंभ-खट्वा-कपाट-पट्ट-पट्टक-पट्टिक-सिक्कक-घृततैलजलादिभाण्डभाजनेन्धन-धान्यादिसर्ववस्तूनां पनकादिसंसक्तिरक्षार्थं. चूर्णकरक्षादिखरण्टन-मलापनयनाऽऽतपमोचनाशीतलस्थानस्थापनादिना जलस्य द्विस्त्रिर्गालनादिना लेहगुडतक्रजलादीनां सम्यवस्थगनादिनाऽवश्रावणस्नानजलादीनां पनकाद्यसंसक्तरजोबहुलभूमौ पृथक् पृथक् स्तोकस्तोकत्यागेन चुल्लीदीपादेरनुद्घाटमोचनेन कण्डन-पेषण-रन्धन-वस्त्रभाजनादि-क्षालनादौ सम्यक्प्रत्युपेक्षणेन चैत्यशालादेरपि विलोक्यमानसमारचनेन यथाऽर्हयतना। यथाशक्त्युपधानमासादि-प्रतिमाकषायेन्द्रियजययोगशुद्धि-विंशतिस्थानकाऽमृताष्टम्येकादशाङ्ग-चतुर्दशपूर्वतपोनमस्कारफलचतुर्विंशतिकाऽक्षयनिधि-दमयन्ती-भद्र-महाभद्राद्योलीसंसारतारणाऽष्टाह्निकापक्षक्षपणमासक्षपणादिविशेषतपः । रात्रौ चतुविधाहारं त्रिविधाहारं वा प्रत्याख्यानम् । पर्वसु विकृतित्यागपौषधोपवासादि । नित्यं पारणे वा संविभाग इत्यादि । चतुर्मास्यभिग्रहाश्च पूर्वाचायैरेवमुक्ताः
.