________________
चतुर्थः प्रकाशः
१९५ ___ एवं च दुनिर्वाहान् नियमान् स्वीकर्तुमशक्तोऽपि सुनिर्वाहान् स्वीकुर्यादेव । यथा मुख्यवृत्त्या वर्षासु सर्वदिग्गमननिषेध उचितः । कृष्णकुमारपालादिवत् । तदशक्तौ यदा यासु दिक्षु गमनं विनापि निर्वहते, तदा तद्दिग्गमननिषेधं विधत्ते । एवं सर्वसचित्तादीनि परिहर्तुमशक्तौ यानि विनापि यदा निर्वहते तानि तदा परिहरति । तथा यस्य यत्र यदा वा यन्न भवति यथा निःस्वस्य हस्त्यादि, मरुस्थलादौ नागवल्लीदलादि, स्वस्वकालं विनाऽऽम्रफलादि च, स तत्र तदा वा तन्नियमयति। एवमसद्वस्तुत्यागेऽपि विरत्यादिमहाफलम् । अत्रासद्वस्तुत्यागे ज्ञातम् । तस्मादसम्भवद्वस्तूनामपि नियमा ग्राह्याः, अन्यथा तु तत्तद्वस्त्वग्रहणेऽपि पशूनामिवाविरतत्वं तत्तन्नियमफलेन च वञ्च्यते । यदाह भर्तृहरिः
क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः, सोढा दुस्सहशीतवाततपनक्लेशा न तप्तं तपः ।
ध्यातं वित्तमहर्निशं नियमितप्राणैर्न मुक्तेः पदं, ... तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥
न हि सकृद्भोज्यपि प्रत्याख्यानोच्चारं विनैकाशनादिफलं लभते । जनेऽपि न हि बहुद्रव्यस्य बहुसमयं व्यापारेणाऽप्युक्तं विना कलान्तरं स्वल्पमप्याप्यते । असम्भवद्वस्तुनोऽपि नियमग्रहणे च कदाचित् कथञ्चित्तद्योगेऽपि नियमबद्धस्तन्न गृह्णात्येव, अगृह्णात्यपीति व्यक्तं नियमफलम् । यथा गुरुदत्तनियमबद्धेन वङ्कचूलपल्लीपतिना क्षुधार्तेनाटव्यां किंपाकफलान्यज्ञातनामानि साथिकैर्बहु बहु प्रेरितेनापि न जग्धानि । साथिकैस्तु जग्धानि । मृताश्च त इति ।
प्रतिचातुर्मासकमित्युपलक्षणम् । तेन पक्षमेकद्वित्रिमासानेकद्व्यादिवर्षाणि वा यावद्यथाशक्ति नियमाः स्वीकार्याः । यो यावदवधि यथा पालयितुं शक्नोति स तावदवधि तथा समुचितनियमानङ्गीकुर्यान्न