________________
श्राद्धविधिकौमुदीसक्षेपः धान्यादेः । परीक्षणं-द्रम्मादीनाम् । विधिना नैषेधिकी न विधत्ते ॥२॥ ___छत्रोपानहशस्त्रचामराणां देवगृहाद् बहिरमोचनम् । मनस एकाग्र्यं न करोति । अभ्यङ्ग-तैलादिना । सचित्तानां पुष्पादीनामत्यागः । त्यागः परिहारः । अजिएत्ति अजीवानां हारमुद्रिकादीनां, बहिस्तन्मोचने हि अहो ! भिक्षाचराणामयं धर्म इत्यवर्णवादो दुष्टलोकैविधीयते । दृष्टे जिनेऽञ्जलिं न बध्नाति एकशाटोत्तरासङ्गं न कुरुते । मुकुटं मस्तके धरति । मौलि शिरोवेष्टनविशेषरूपाम् । शेखरं कुसुमादिमयं विधत्ते । हुड्डां. पारापतनालिकेरादिसम्बन्धिनी पातयति । जिंडुहः कन्दुकः । ज्योत्कारकरणं पित्रादीनाम् । भण्डानां विटानां क्रिया कक्षावादनादिका ॥३॥
तिरस्कारार्थं रेकारं करोति ।, लभ्यद्रव्ययाचनाद्यर्थं धरणम् । रणंसङ्ग्राम् । विवरणं-वालानां विजटीकरणम् । पर्यस्तिकाकरणम् । पादुका काष्ठादिमयं चरणरक्षणोपकरणम् । पादयोः-प्रसारणं स्वैरं निराकुलतायाम्। सुखार्थं पुडपुडीदापनम्। पङ्क-कर्दमं करोति निजदेहावयवक्षालनादिना । रजो-धूलीं तत्र पादादिलग्नां शाटयति । मैथुनंकामक्रीडाम् । यूकां-मस्तकादिभ्यः क्षिपयति, वीक्षयति वा । जेमनंभोजनम् । गुह्यं-लिङ्गं तस्यासंवृतस्य करणम् । 'जुज्झं' इति पाठे तु युद्धं दृग्बाह्यादिभिः । वैद्यकम् । वाणिज्यं-क्रयविक्रयादिरूपम् । शय्यां कृत्वा तत्र स्वपिति । जलं पानाद्यर्थं तत्र मुञ्चति पिबति वर्षासु कुट्टिमप्रणालादौ सगृह्णाति वा । तथा मज्जनस्थानं तत्र करोति ॥४||
इत्युकर्षतश्चतुरशीत्याशातनाः । बृहद्भाष्ये तु पञ्चैवाऽऽशातनाः प्रोक्ता यथा
जिणभवणंमि अवन्ना पूआइअणायरो तहा भोगो । दुप्पडिहाणं अणुचिअवत्ती आसायणा पंच ॥
१. भेडानां इति को० ह० प्र० पाठः ।