________________
प्रथमः प्रकाशः .
रेक्कारं धरणं रणं विवरणं वालाण पल्हत्थिअं, पाऊ पायपसारणं पुडुपुडी पंकं रओ मेहुणं । जुअं जेमण-गुज्झ-विज्ज-वणिज-सिज्जं-जलं-मज्जणं,
एमाईअमवज्जकज्जमुजुओ वज्जे जिणिदालए ॥ __ एतद् व्याख्या-खेलं-श्लेष्माणं जिनगृहे निक्षिपति । केलिद्यूतक्रीडादिकां तत्र करोति । कलिं-कलहम् । कला:-धनुर्वेदादिकाः प्रयुङ्क्ते । कुललयं गण्डुषम् ताम्बुलं भक्षयति । भक्षितताम्बूलोद्गालनं तत्र निक्षिपति । गालीदत्ते । कंगुलिअत्ति लघुवृद्धनीतिकरणम् हस्तपादाद्यङ्गधावनं करोति । केशान् नखान् समारचयति । रुधिरं तत्र पातयति। भत्तोसं सुखादिकां भक्षयति । त्वचं व्रणादिसम्बधिनी पातयति। पित्तं धातुविशेष औषधादिना तत्र पातयति । एवं वान्तं दन्तं च । विश्रामणां कारयति । दामनम्-अजाश्वादीनां दन्ताक्षि-नखगण्डनासिका-शिरःश्रोत्रच्छवीनां मलं जिनगृहे त्यजति, तत्र छविः शरीरं शेषास्तदवयवाः ॥१॥ .. __ मन्त्रं-भूतादिनिग्रहलक्षणं राजादिकार्यालोचनं वा तत्र करोति । मीलनं क्वापि स्वकीयविवाहादिकृत्ये निर्णयाय वृद्धपुरुषाणां तत्रोपवेशनम् । लेख्यकं-व्यवहारादि । राजादिकार्यविभजनं विभागं वा दायादादीनां तत्र करोति । भाण्डागारं-निजद्रव्यादेः । दुष्टासनं पादोपरिपादस्थापनादिकम् । छाणी-गोमयपिण्डः । कर्पटं-वस्त्रम् । दालिमुद्गादिद्विदलरूपा । पर्पटः । वटिकाः । एषामुपलक्षणत्वादन्येषामपि करीरचिर्भटिकाशाकादीनां विसारणं-उद्वापनकृते विस्तारणम् । नाशनं राजदायादिभयेन चैत्यस्य गर्भगृहादिष्वन्तर्धानम् । आक्रन्दं रोदनं पुत्रकलत्रादिवियोगेन । स्त्रीभक्तराजदेशसम्बधिनीविकथाः करोति । शराणां बाणानां इथूणां च घट्टनं । सरत्थेति पाठे तु शराणामस्त्राणां च धनुरादीनां घट्टनं । गोवृषभादींस्तत्र स्थापयति । शीतार्तोऽग्नि सेवते । रन्धनं- .