________________
७८
श्राद्धविधिकौमुदीसङ्क्षपः ऽऽगमात्मकप्रवृत्तिरूपं चरित्रिणः साधो न्यस्य पार्श्वस्थादेः ३। यत् पुनरभ्यासरसादभ्यासप्रकर्षाद् भूयो भूयस्तदासेवनेन श्रुतापेक्षां विनैव करोति फलनिराशंसो जिनकल्पिकादिस्तदसङ्गानुष्ठानम् ४। यथा चक्रभ्रमणमेकं दण्डसंयोगाज्जायते एवं वचनानुष्ठानमप्यागमात्प्रवर्त्तते, यथा चान्यच्चक्रभ्रमणं दण्डसंयोगाभावे केवलादेव संस्कारपरिक्षयात् स्यात्, एवमागमसंस्कारमात्रेण यद्वचननिरपेक्षं तदसङ्गानुष्ठानमिति पञ्चमादिगाथासप्तकार्थः । एवं च देवपूजादावेकान्तहार्दबहुमाने यथोक्तविधिविधाने च सम्पूर्णफलमिति । तत्र सम्यग् यतनीयम् । ...
(अत्र विधिदेवपूजायां धर्मदत्तनृपकथा ॥
सूत्रगाथायां उचिअचिंतरओ इत्युक्तं, तत्र उचितचिन्ता चैत्यप्रमार्जनं, विनश्यच्चैत्यप्रदेशपूजोपकरणसमारचनं, प्रतिमापरिकरादिनैर्मल्याऽऽपादनं, विशिष्टपूजाप्रदीपादिशोभाऽऽविर्भावनं, वक्ष्यमाणाशातनानिवारणम्, अक्षतनैवेद्यादिचिन्ता, चन्दनकेशरधूपदीपतैलसङ्ग्रहो, वक्ष्यमाणदृष्टान्तविनश्यच्चैत्यद्रव्यरक्षा, त्रिचतुराद्याऽऽस्तिकसाक्षिकं तदुद्ग्राहणिका, तत्सुस्थानसुयत्नस्थापनं, तदायव्ययादौ सुव्यक्तं लेख्यकं स्वयं परैश्च द्रव्यार्पण द्रव्यायप्रवर्त्तनविधिना तदुत्सर्पणं, 'कर्मस्थायकरणं,
कर्मकरचिन्ता चेत्यादिरंनेकविधा । तत्राढ्यस्य द्रव्यपरिजनादिबलसाध्या चिन्ता सुकरा, अनाढ्यस्य तु स्ववपुः-कुटुम्बादि-साध्या। यस्य च यत्र यथा सामर्थ्य, स तत्र तथा विशेषतः प्रयततें । या च चिन्ता स्वल्पसमयसाध्या, तां द्वितीयनैषेधिक्या अर्वाग् विधत्ते, शेषां तु पश्चादपि यथायोगम् । एवं धर्मशालागुरुज्ञानादेरपि यथोचितचिन्तायां सर्वशक्त्या यतनीयं, नहि देवगुर्वादीनां श्रावकं विनाऽन्यः कश्चित् चिन्ताकर्ताऽस्ति,
१. देवदायप्रवर्तन इति को० ह० पाठः । २. कर्मस्थायककारणं इति को० ह० प्र० पाठः ।