________________
अथ प्रशस्तिः ॥ वन्दे श्रीस्तम्भनाधीश, स्तम्भतीर्थे प्रतिष्ठिता । दृष्टमात्रापि यन्मूर्तिः, कल्पवृक्षातिशायिनी ॥१॥ श्रीतपागच्छपाथीज-भास्वते सूरिचक्रिणे। ... सर्वतन्त्रस्वतन्त्राय, नमः श्रीनेमिस्रये ॥२॥ . प्रौढप्रतापिनो यस्य, पादरेणुपवित्रिताः। . भूमयोऽनेकदेशीया-धर्मार्थानन्दपूरिताः ॥३॥ सिद्धान्तश्च नयाः कणादकपिलव्यासाक्षपादोद्भवामायासौनवजैमिनीयसमया येनाऽखिला वेदिताः । तत्तन्नव्यमहार्थशास्त्ररचनासम्प्राप्तसद्गौरवः । सोऽयं श्रीगुरुनेमिसरिभगवान् भट्टारको नः श्रियै ॥४॥ तस्य पट्टधरः पूज्यः, सिद्धान्तशशिरोमणिः । विजयोदयसूरीश-स्तस्य पट्टभृता मया ॥५॥ . श्रीमतों नेमिनरीणां, पादसेवाप्रभावतः । सरिणा नन्दनेनेयं, तत्त्वकल्पलता कृता ॥६॥ स्तम्भतीर्थपुरे वेद-गजाकेन्दुमिताब्दके । (१९८४) चैत्रकृष्णद्वितीयायां, शनौ पूर्णीकृता शुभे ॥७॥ जैनमुक्तावलीटीका, कृत्वैनां यदुपार्जितम् । मुपुण्यमत्र तेनास्तु, सर्वलोकः सुखी सदा ॥८॥