________________
[२९८ ]
प्रकीर्णकस्तुतिकूलम् नृपदत्तोल् शास्त्राज्ञालेखशास्तिषु ।" इत्यनेकार्थः (३।४१७ ) । 'स्थितवताम्' निवासं कृतवताम् । 'शुचिम्' पवित्रम् पुण्यवन्धनहेतुत्वाद् कर्ममलदूरीकरणत्वात् च। " शुचिः शुद्धे सितेऽनले " इत्यनेकार्थः (२।५९)। 'धर्मम् ' दानशीलतपोभावलक्षणम् आचरणीयोऽनुष्ठानविशेषः तम् । 'कुर्वताम् ' विदधताम् आचरतामित्यर्थः । 'भव्यानाम् ' भावुकानाम् । 'समग्रविघ्ननिवहान्' समग्राः समस्ताः देवदानवमानवकृताः विघ्नाः उपद्रवास्तेषां निवहाः समूहास्तान् । "समवायो निकुरम्बं जालं निवहसञ्चयो। जातम्" इत्यभिधान (१४१२) । 'निघ्नन्ति' नितरां संपूर्णतया नन्ति क्षयं कुर्वन्ति । 'ते' विघ्नहरणतत्पराः । ' प्रसादसुमुखाः ' प्रसादेन भगवत्कृपया सुमुखाः शोभनं सदैवाह्लादकत्वात् सुन्दरं मुखं वक्त्रं येषां ते तेन प्रभुकृपापात्रत्वं वर्णितम् । 'सम्यग्दृशाम्' सम्यग् कृत्याकृत्यविवेकपूर्ण शोभने दृशौ दृष्टी अवलोकनशक्ती वा येषां तेषां निर्धारणषष्ठी बोध्या। 'सम्मुखाः' संगत प्राप्तं मुखम् आननं येषां ते प्रधाना इत्यर्थः अनेन सम्यग्दृष्टित्त्वं कथितम् । वैयावृत्यकराः ' वैयावृत्यम् व्यावृत्तः प्रवचनोदितक्रियानुष्ठानलक्षणव्यापारप्रवृत्तः तस्य भावः कर्म वा वैयावृत्यम् व्याधिपरीषहायुपसर्गोपनिपाते तत्प्रतीकारस्तदानुकुल्यानुष्ठानं चेत्यर्थः। तच्चाऽऽचार्योपाध्याय-स्थविर-तपस्त्रि-शैक्षग्लान-साधर्मिक-कुल-गण-सङ्घलक्षणभेदेन दशधा. तत्कुर्वन्ति विदधते इत्येवंशीलोः सेवास्वभाविन इत्यर्थः एतेन भक्तिभरत्वमुक्तम् । 'सुरासुरवराः' सुराः देवाः असुराः दानवास्तेषु वराः प्रशस्ताः एनेन च उत्तमजातिस्वभावत्वमुदितम्। 'शक्रप्रमुखाः शक्राः इन्द्राः चतुःषष्टिसङ्ख्यकाः स्वर्गाधिपाः वा प्रमुखाः मुख्याः प्रमुखे प्रथमे वा येषु ते इन्द्रादय इत्यर्थः। “प्रमुख प्रथमे मुख्ये" इत्यनेकार्थः (२।१०४)। 'सङ्घस्य ' तीर्थस्य साधुसाध्वीश्रावकश्राविकालक्षणस्य समुदायस्य