________________
श्रीतीर्थस्तुतिः .
[२९१] तस्मिन् । “ अष्टापदश्चन्द्रमल्ल्या लूतायां शरमे गिरौ । कनके शारिफलके " इत्यनेकार्थः । (४।१३६)। 'आद्यम् ' आदौ प्रथमे एतदवसर्पिणीकालस्य पूर्वभागे भवं जातं वा आद्यं प्रथमम् श्रीऋषभदेवमित्यर्थः । "पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्याः" इत्यमरः (३।१।८०)। 'तीर्थकरम्' तीर्थ धर्मशासनं साधुसाध्वीश्रावकश्राविकारूपं वा करोति विदधातीति तीर्थकरोऽर्हन् तम् जिनेन्द्रमित्यर्थः । 'नितराम् ' सततम् । 'नमामि' नमस्कारं करोमि । 'सम्मेताभिधशैलराजशिखरे' सम्मेतः पवित्रपर्वतविशेषः अभिधा नाम यस्य सः तन्नामतीर्थविशेषः विंशतिजिनेशनिर्वाणक्षेत्रं वा तादृशः शैलराजः शैलानां पर्वतानां राजा स्वामी जिनेश्वरविंशतिमोक्षकल्याणकदायित्वात् तस्य शिखरे सर्वोपरिभागे । 'अहंताम् ' तीर्थकृताम् । 'विंशतिम्' तत्सङ्ख्यकाम् । 'वन्दे' प्रणामं कुर्वे । 'अथो' आनन्तर्ये, ततः पश्चादेव विलम्ब विनेत्यर्थः । 'चम्पायाम् ' तनामनगरीविशेषे । 'वसुपूज्यनन्दनम् ' वसुभिः नृपैः पूज्यः स्तुत्यः वसुपूज्यः तन्नामराजाधिरोजः तस्य नन्दनम् पुत्रम् श्रीवासुपूज्यजिनेश्वरमित्यर्थः । “वते उज्जयन्तपर्वते तन्नामगिरिविशेषे वा। 'नेमिम्' द्वाविशं तीर्थपंतिम् । 'स्तुवे' स्तुति कुर्वे । 'पापायां पुरि' तनामनगर्यो श्रीवीरजिनेन्द्रनिर्वाणभूमौ वा । 'अलम् ' समर्थम् भवोदधितारकत्वात् ।। - देवम् ' तीर्थपतिम् । ‘वर्धमानम् ' श्रीमहावीरम् । 'अन्वहम्' अह्नि अह्नि अन्वहम् प्रतिदिनम् । 'नमामि वन्दे । इदं पद्यचतुष्कं शार्दूलविक्रीडितवृत्तम् । तल्लक्षणन्तु पूर्वोक्तम् ।
અર્થ શત્રુંજય પર્વતને વિષે અને અષ્ટાપદ પર્વતને વિષે પહેલા તીર્થકર દેવને હું હંમેશાં નમું છું, સમેત નામના ગિરિરાજના શિખરને વિષે અરિહંતોની વીશીને=વીશ તીર્થકર દેવોને વંદન કરું છું, હવે ચંપાનગરીમાં વસુપૂજ્ય રાજાના પુત્ર (વાસુ