SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ [ २८८ ] प्रकीर्णकस्तुतिकूलम् श्रीसिद्धचक्रम्-श्रिया युक्तम् -श्रीयुक्तम् , (तृ.त.पु.) श्रीयुक्तम् सिद्धचक्रम् -श्रीसिद्धचक्रम् , तद्-श्रीसिद्धचक्रम् । (म. प. लो. क.) भवतापान्-भवस्य तापाः-भवतापाः, तान् –भवतापान् ।(ष.त.पु.) श्रीजिनानाम् –श्रिया युक्ताः-श्रीयुक्ताः, (तृ. त. पु.) श्रीयुक्ताः जिनाः-श्रीजिनाः, तेषाम् -श्रीजिनानाम् । (म. प. लो. क:) श्रीरोहिण्यादिदेव्यै प्रार्थना..... जिनपतिपदसेवा-सावधाना धुनाना-, . दुरितरिपुकदम्बं कान्तकान्तिं दधानाः । । ददतु तपसि पुंसां सिद्धचक्रस्य नव्यं, प्रमदमिह रतानां रोहिणीमुख्यदेव्यः ॥४|| अन्वय जिनपतिपदसेवासावधानाः 'दुरितरिपुकदम्बं धुनानाः' कान्तकान्ति दधानाः. रोहिणीमुख्यदेव्यः इह सिद्धचक्रस्य तपसि रतानां पुंसां नव्यं प्रमदं ददतु.... जिनपतिपदसेवेति....' जिनपतिपदसेवासावधाना' जिनानां वीतरागाणां केवलिभगवतां पतयः स्वामिनस्तेषाम् अर्हत्परमात्मनां पदयोः चरणयोः सेवायाम् उपासनायां सावधानाः अवधानेन एकाग्रमनसा सह वर्तन्ते यास्ताः दत्तचिताः प्रभुचरणोपासनपरायणाः इत्यर्थः । 'दुरितरिपुकदम्बम् ' दुरितानि दुःखानि पापानि वा तान्येव रिपुः शत्रः तमेव कदम्ब नीपं तन्नामवृक्षविशेषं वा । "कदम्बं निकुरम्बे स्यान्नीपसर्षपयोः पुमान्" इवि मेदिनी (१०५।९) 'धुनानाः' कम्पायमानाः उन्मूलनस्याक्षमत्वात् । 'कान्तकान्तिम् ' कान्तां मनोहरां दर्शनमात्रेणैवाहलादकत्वात् कान्ति
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy