SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सकलकुशलवल्लीपाद पूर्तिश्रोशान्ति जिनस्तुतिः [ २५९ ] प्रथितघनघटायाम् - घना घटा - घनघटा, (वि. पू. क.) प्रथिता घनघटा - प्रथितघनघटा, तस्याम् - प्रथितघनघटायाम् । (वि. पू. क.) सूर्यकान्तप्रकाशः कान्तः प्रकाशः - कान्तप्रकाश:, (वि. पू. क . ) सूर्यस्य कान्तप्रकाशः - सूर्यकान्तप्रकाशः (ष त. पु.) ब्रह्मशान्तियक्षस्तुतिः जयविजय मनीषा - मन्दिरं ब्रह्मशान्तिः, सुरगिरिसमधीरः, पूजितो न्यक्षयक्षैः । हरतु सकलविघ्नं यो 'जनैश्चिन्त्यमानः, स भवतु सततं वः श्रेयसे शान्तिनाथः ॥ ४ ॥ अन्वय यः जयविजय मनीषामन्दिरं सुरगिरिसमधीरः, न्यक्षयक्षेः पूजितः जनैः चिन्त्यमानः, शान्तिनाथः सः ब्रह्मशान्तिः वः सकल विघ्नं हरतु श्रेयसे भवतु । ... जय विजयेति... 'यः' वक्ष्यमाणलक्षणव्यक्तिविशेषः । 'जयविजयमनीपामन्दिरम्' जयः परपराभवः स्वक्षेत्र विषयिशत्रु विनाशरूपो वा, विजयः परक्षेत्र विषयिरिपुसंक्षयस्वरूपः, मनीषा बुद्धिः सदसत्कृत्याकृत्यविवेकपूर्णा तासां मन्दिरं धाम इव सच्चसद्बुद्धिनिधिरित्यर्थः । 'सुरगिरिसमधीरः सुराणाम् अमराणां गिरिः पर्वतः मन्दराद्रिस्तस्य समः सह धीरः स्थिरः निश्वलो वा । 'न्यक्षयक्षैः ' न्यक्षाः समस्ताः ये यक्षाः व्यन्तरनिकाय देवविशेषास्तैः । विश्वाशेषाऽखण्ड - कृत्स्न-न्यक्षाणि निखिलाऽखिले " इति हैम : ( ६ |६१ ) | 'पूजितः' अर्चितः सन्मानितो वा । 'जनैः' लोकैः । 'चिन्त्यमानः '
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy