SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ नित्यं न क्षीणाष्टकर्मनिकरस्य देवास्तेषां निकरस्य श्रीकल्याणमन्दिरपादपूर्तिश्री वीरजिनस्तुतिः [२४५] मण्डलसुसर्जनद्रेववृक्षं, दलिततीवकषायं, नित्योदयम् , अधिप नित्यं नमः अस्तु ।.... क्षीणाष्टेति....'क्षीणाष्टकर्मनिकरस्य' क्षीणानि विनष्टानि अष्टौ कर्माणि ज्ञानावरणीयादिलक्षणानि येषां जिनेश्वरदेवास्तेषां निकरस्य समूहस्य । ‘भीताभयप्रदम् ' भीतानां कातराणां जन्मजरामरणादिभयेन देवमनुजतिर्यकृतोपद्रवरूपमिया वा विह्वलीभूतानां वा अभयं निर्भीरुत्वं प्रददाति प्रयच्छतीति नामस्मरणस्यापि भयहारित्वात्, यदुक्तं शकस्तवे 'अभयदयाणं' इति...."अथ कातरः । दरितश्चकितो मीतोमीरु -भीरुक-भीलुकाः॥३६५।। इति हैमः । 'उच्चैः' ऊध्वस्वरेण 'अनिन्दितम्' न निन्दितं नैव विगीतम् अपि तु प्रशस्तं त्रिलोक-पूज्यत्वात् सुरासुरनरेन्द्रैः संस्तुतमित्यर्थः । इष्टार्थमण्डलसुसर्जनदेववृक्षम्' इष्टानां वाञ्छितानाम् अर्थानां वस्तूनां मण्डलस्य समूहस्य सुसर्जने सम्यक विरचने पूरणे वा संतुष्टिदायकत्वाद् देववृक्षं देवानां सुराणां देवैः अमरैः अधिष्ठितं वा वृक्षः पादपस्तमिव कामितकल्पद्रुमसममित्यर्थः । 'दलिततीव्रकषायम्' दलिताः विनाशिताश्चूर्णीकृता वा तीव्राः कटवः दारुणदुःखदायित्वात् कषायाः क्रोधमानमायालोभरूपाः येन तद् । 'नित्योदयम् ! नित्यं सततम्-उदय उन्नतिः ऐश्वर्यवृद्धि वा यस्य तद् । “उदयः पर्वतोन्नत्योः" इत्यनेकार्थः (३।४७४)। 'अघ्रिपमम् ' अध्री चरणों एच पमं कमलम् । 'नित्यम् ' सदैव । 'नमः' नमस्कारं वन्दनं वा। 'अस्तु' भवतु । અથ:-નાશ ર્યો છે આઠ કર્મને જેમણે એવા (જિનેશ્વરદેવ)નાં સમૂહનાં-બીક પામેલાને અભય આપનાર, અત્યંત પ્રશંસા પામેલ, ઇચ્છિત પદાર્થના સમૂહને સર્જન કરવામાં કલ્પવૃક્ષ સમાન, દલન કરા છે તીવ્ર કષાય જેમણે એવા, નિત્ય ઉદય છે જેને એવા ચરણકમલને હમેશા નમસ્કાર થાઓ.
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy