SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीकल्याणमन्दिर पादपूर्तिश्री वीरजिनस्तुति [ २४३ ] अन्वय शक्राः अवद्यभेदि यत्पादपद्मयुगलं प्रणमन्ति कल्याणमन्दिरम् , उदारं, दुष्कर्मवारणविदारणपञ्चवक्त्रं, जिनवरं, जिनौशलेयं मुदा, स्तोष्ये । कल्याणमन्दिरमिति....'शकाः' इन्द्राः। 'अवद्यभेदि' अवद्यानि पापानि कर्माणि वा मिनत्ति नाशं करोतीति पापघातीत्यर्थः । ' यत्पादपद्मयुगलम् ' यस्य श्रीमहावीरजिनेन्द्रस्य पादौ चरणौ एव पझे कमले तयोः युगलं द्विकम् । 'प्रणमन्ति' वन्दन्ते नमनं कुर्वन्ति वा। 'कल्याणमन्दिरम्' कल्याणस्य मङ्गलस्य सुखस्य वा मन्दिरं धाम । 'उदारम्' महन्तं दातारं वा सेवकजनाय स्वीयस्थानसमर्पकत्वात् । “उदारो दक्षिणो महान् ॥१५८॥ दाता" इत्यनेकार्थः (३३१५८१५९) । 'दुष्कर्मवारणविदारणपञ्चवक्त्रम् ' दुष्टानि कृच्छ्राणि कर्माणि पापानि ज्ञानावरणीयादिरूपाणि वा तान्येव वारणः हस्ती तस्य विदारणे विनाशने पञ्च चतुष्पादमेकञ्च मुखं पञ्चानि विस्तृतानि वा वक्त्राणि मुखानि यस्य तम् सिंहमिव । 'जिनवरम् ' जिनेषु वीतरागेषु वरम् उत्तमम् । 'जिनत्रैशलेयम् ' जिनो वीतरागश्चासौ त्रैशलेयः त्रिशलायाः सिद्धार्थपन्याः अपत्यं वीरनामतीर्थपतिश्च तम् । 'मुदा' हर्षेण । 'स्तोष्ये' स्तुति करिष्ये । इदं पद्यचतुष्कं वसन्ततिलकावृत्तम् तल्लक्षणन्तु प्रागुक्तम् । અથ:-ઈન્દ્રો પાપને ભેદનાર એવા જેનાં ચરણકમલનાં યુગલને નમસ્કાર કરે છે કલ્યાણનાં ધામસમા, મહાન, દુષ્ટકર્મરૂપી હાથીને વિધારવામાં સિંહ સરખાં, વીતરાગ એવા ત્રિશલાદેવીના પુત્ર (શ્રી વર્ધમાન) જિનેશ્વરદેવની હું હર્ષથી સ્તુતિ કરીશ. समास कल्याणमन्दिरम् :-कल्याणस्य मन्दिरम्-कल्याणमन्दिरम् , तद्कल्याणमन्दिरम् । (प. त. पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy