SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ [२२४] प्रकीर्णकस्तुतिकूलम् शोभन्तेऽतश्चरणविलग्नमालानां यानि पुष्पाणि तेषां सुरभिणा अर्हच्चरणाः सुवासिता इत्यर्थः। 'भावावनामसुरदानवमानवेन' भावेन आन्तरिकीरत्या भक्तिपूर्णहृदयत्वाद् अवनामाः निम्नकृतमूर्धानः नमस्कारं कुर्वन्तो वा सुरा देवाः दानवा असुराः मानवा मनुष्याश्च यस्य यस्मै वा तेन । “भावः सत्तास्वभावऽभिप्राय-चेष्टात्मजन्मसु । क्रियालीलापदार्थेषु बुधजन्तुविभूतिषु ।।२०।। उत्पादौ च" इति मेदिनी (१५९।२०-२१)। 'अजेन' न जायते । स्म, 'क्वचित् ' (सि०५।१।१७१ ) इति डः, पुनर्जन्म न गृह्णाति सः। सामान्यतोत्र केवलिभगवान् गृह्यते । ( यदि ब्रह्मा विष्णुरित्यर्थों गृह्येत तर्हि भावावनाम० इति विशेषण न घटतेऽत एव रूढयर्थः त्यक्त्वाऽत्र यौगिकार्थों गृहीतः ) तेन । 'नतानि' नमस्कृतानि । 'अर्हताम् ' जिनेश्वराणाम् । 'वरपदानि ' वराणि श्रेष्ठानि अमरासुरनरेश्वरार्चितत्वात् पदानि चरणान् । 'वन्दे' प्रणमामि नमस्कार कुर्वे । अस्मिन् पद्ये वसन्ततिलकावृत्तम् , पूर्वोक्तम् तु तल्लक्षणम् । અર્થ-દેવડે કરાયેલ સુવર્ણનાં કમલેથી સુશોભિત, પુષ્પનાં સમૂહથી યુક્ત કમલેની પાંદડીઓની સુગન્ધથી સુવાસિત થયેલ, ભાવથી નમેલાં છે દેવ દાનવ અને માનવ જેને એવા, સામાન્ય કેવલિભગવંતવડે નમાએલાં, અરિહંત પરમાત્માનાં સુંદર ચરણને હું નમન કરૂં . समास: पुष्पौवपद्मदलसौरभगुण्ठितानि-पुष्पाणाम् ओघः,-पुष्पौधः, (घ. त. पु.) पद्मानां दलानि-पद्मदलानि, (प. त. पु.) पुष्पौघेन युक्तानिपुष्पौधयुक्तानि, (तृ. त. पु.) पुप्पौघयुक्तानि पद्मदलानि-पुप्पौघपद्मदलानि, (म. प. लो. क.) पुष्पौवपद्मदलानां सौरभः-पुष्पौषपद्मदलसौरभः, ( ष. त. पु.) पुष्पौघपद्मदलसौरभेण गुण्ठितानि-पुष्पौघपद्मदलसौरभगुण्ठितानि, तानि-पुष्पौघपद्मदलसौरभगुण्ठितानि । (तृ. त. पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy