________________
श्रीस्नातस्यास्तुतिः
[ २०७ ]
♦
स्नातस्य स्नापितस्य स्नाधातोरकर्मकत्वाद् अत्र तु विभोः इति कर्म विद्यते अत एव स्नातमध्ये अन्तर्भूतण्यर्थोऽवबोध्यः । ' अप्रतिमस्य' नास्ति प्रतिमा उपमा यस्य तस्य अनुपमस्य अतुलस्य वा । ' कीर्तितगुणस्य' कीर्तिता सुरासुरनरैः संस्तुता गुणाः शौर्यादयः प्रशमादयो वा यस्य तस्य । सिद्धार्थाङ्गरुहस्य' सिद्धाः अर्थाः पुरुषार्थाः धर्मार्थकाममोक्षलक्षणाः यस्य स सिद्धार्थः क्षत्रियकुण्ड नरेशः : श्रीवीरजिनपिता तस्य अङ्गाद् गात्रात् रोहति प्रभवतीति मूलविभुजादित्वात्कः अङ्गरुहः पुत्रस्तस्य श्रीमहावीर - जिनेन्द्रस्य । 'विभोः ' प्रभोः । ' स्फूर्जभक्तिनतेन्द्र शीर्ष विलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्बिताद्भुतनरवश्रेणिसमुज्जृम्भितम् ' स्फू जन्तः प्रमोदप्रकटीकरणाय परस्परं वज्रादिशस्त्रास्फालनेन ध्वनिं कुर्वन्तः भक्त्या आन्तरिकानुरागेण " अथ सेवा भक्तिः परिचर्या प्रसादना " इति हैमः ( ३।१६० ) । नताः प्रह्वीभूता वन्दिता वा ये इन्द्राः स्वर्गाधिपाः “ 'इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः" इत्यमर: : . ( १|१|४४ ) । तेषां शीर्षेषु मस्तकेषु विलसन्ति शोभमानानि यानि कोटीराणि मुकुटाः "मौलिः कोटीरमुष्णिषं किरीटं मुकुटोsस्त्रियाः” इति वैजयन्ती ॥ १३५ ॥ । तेषां रत्नानि वैद्यनेकविधानि तेषाम् आवल्या पङ्क्त्या रङ्गन्ती रङ्ग इव आचरन्ती विविधरङ्गिणी वा या कान्तिः प्रभा तया करम्बिताः करम्बः मिश्रणः सञ्जातो येषां मिश्रिताः येऽद्भुता अनुपमा सौन्दर्योपेता वा नखाः पादरुहाः " नखः करजषष्ठयोः " इत्यनेकार्थः ( २।२२ ) । तेषां श्रेण्या पङ्क्त्या समुज्जृम्भितं प्रकाशितम् । ' अङ्घ्रिद्वयम् ' - अयोश्चरणयोः द्वयं द्विकं । ' व ' युष्मान् । 'पातु' रक्षतु । इदं पद्यद्वयं शार्दूलविक्रीडितवृत्तम् तल्लक्षणं तु पूर्वोक्तम् ।
"