SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीदीपालिकास्तुतिः ( शार्दूलविक्रीडितवृत्तम् ) श्रीवीरविभोः निर्वाणवर्णनम्... पापायां पुरि चारुषष्ठतपसा पर्यकपर्यासनः । क्ष्मापालप्रभुहस्तिपालविपुलश्रीशुक्लशालां गतः ॥ गोसे कार्तिकदर्शनागकरणे, तुर्यारकान्ते शुभे । स्वातौ यः शिवमाप पापरहितं संस्तौमि वीरं - जिनम् ॥ १॥ अन्वय पापायां पुरि क्षमापालप्रभुहस्तिपालविपुलश्रीशुक्लशाला गतः, चारुषष्ठतपसा पर्यङ्कपर्यासनः, यः तुर्यारकान्ते कार्तिकदर्शनागकरणे शुभे गोसे स्वाती पापरहितं शिवम् आप (तं) वीरें जिनं संस्तौमि । ___ पापायामिति :-'पापायाम् ' तन्नामग्रामविशेषे । 'पुरि' नगर्याम् । .:क्ष्मापालप्रभुहस्तिपालविपुलश्रीशुक्लशालाम्' मां पृथ्वीं पालयन्तीति मापालाः राजानः तेषां प्रभुः स्वामी, स चासो हस्तिपालश्च तन्नामपृथ्वीपालपतिश्च तस्य विपुला महत्यः श्रियः शोभाः यस्यां सा शुक्लशाला क्षेत्रविशेषा ताम् । “विपुलः पृथुले ऽगाघे मेरु पश्चिमभूधरे" इति विश्वः (१५४।६१)। 'गतः' स्थितः । 'चारुषष्ठतपसा' चारु श्रेष्ठ निर्जलत्वात् षष्ठस्य द्वयुप.
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy