________________
[१४०]
श्रीशोभनस्तुतिचतुर्विशतिका अतिहृद्या-हृदि प्रिया हृद्या, 'हृद्य-पद्य-तुल्य-मूल्य' ७।१।११ ....निपातन, अतिशयेन हृया-अतिहृया। अतिरतिक्रमे च ३।१।४४ (प्रादि. त. पु.)
अमलमतेः-न मला-अमला, (न.त.पु.) अमला मतिः यस्य सः-अमलमतिः, तस्य-अमलमतेः । ( स. व. वी.) - अधिकामात्-अधिकश्चासौ आमश्च-अधिकामः, तस्मात्-अधिकामात् । ( वि. पू. क. ) अथवा-आधिकामात्-आधिश्च कामश्च एतयोः समाहारः-आधिकामम्, तस्मात्-आधिकामात् । (स. द्व.) · .. . अव्याधिकालाननजननजरात्रासमाना-कालस्य आननम्-कालाननम्, (प. त. पु.) व्याधिश्च कालाननं च जननं च जरा च त्रासश्च । मानश्च-व्याधिकालाननजननजरात्रासमानाः, (इ. द्व.) न विद्यन्ते व्याधिकालाननजननजरात्रासमानाः यस्यां सा-अव्याधिकालाननजननजरात्रासमाना । (न. ब. बी.)
असमाना-नास्ति समानः यस्याः सा- असमाना। (न.व.वी.) सद्योऽसद्योगभिद् वागमलगमलया जैनराजीनराजीनूता नूतार्थधात्रीह ततहततमःपातकाऽपातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाऽबाधिका वा55देया देयान्मुदं ते मनुजमनु जरां त्याजयन्ती जयन्ती
॥३॥ ९१ ॥ ___ अन्वय-असद्योगभिद् , अमलगमलया, इनराजीनूता, नृतार्थधात्री, ततहततमःपातका, अपातकामा, शास्त्री, नराणां शास्त्री, (शास्त्रीशा, स्त्रीनराणां) हृदयहृत् , अयशोरोधिका, अबाधिका, आदेया, मनुजम् अनु जरी त्याजयन्ती, जयन्ती वा जैनराजी वाग् ते इह सद्यः मुदं देयात् । ..