SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पर्यायार्थिकनयलक्षणम् : 'पर्यायमात्रग्राही पर्यायार्थिकः' । or जापावकः । अयं हि उत्पाद-विनाश-पर्यायमात्राभ्युपगमप्रवणः, द्रव्यं तु सजातीयद्रव्यातिरिक्तं न मन्यते, तत एव प्रत्यभिज्ञाद्युत्पत्तेः । न चैवं इतरांशप्रतिक्षेपित्वात् दुर्नयत्वं, तत्प्रतिक्षेपस्य प्राधान्यमात्र एवोपयोगात्। द्रव्यार्थिकनयभेदाः : आद्यस्य चत्वारो भेदाः-नैगमः सङ्ग्रहो व्यवहार ऋजुसूत्रश्चेति जिनभद्रगणिक्षमाश्रमणप्रभृतयः । ऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात् तदा ‘उज्जुसुअस्स एगे अणुवउत्ते एगं . दव्वावस्सयं, पुत्तं नेच्छइत्ति' (अनु. १४).इति सूत्रं विरुध्येत । . .. 'ऋजुसूत्रवर्जास्त्रय एव द्रव्यार्थिकभेदाः' इति तु वादिनः सिद्धसेनस्य मतम् । अतीतानागत-परकीयभेद-पृथक्त्वपरित्यागाद् ऋजुसूत्रेण स्वकार्यसाधकत्वेन स्वकीय-वर्तमानवस्तुन एवोपगमात् नास्य तुल्यांश-ध्रुवांशलक्षणद्रव्याभ्युपगमः । उक्तसूत्रं तु अनुपयोगांशमादाय वर्तमानावंश्यकपर्यायें द्रव्योपचारात् समाधेयम् । पर्यायार्थिकनयभेदाः : पर्यायार्थिकस्य त्रयो भेदाः 'शब्दः समभिरूढ एवम्भूतश्चेति' संप्रदायः । . ऋजुसूत्राद्याश्चत्वार इति तु वादी सिद्धसेनः । तदेवं सप्तोत्तरभेदाः ।. सप्तेति । शब्दपदेनैव साम्प्रत-समभिरूढेवम्भूतात्मकनयभेदतया उपसङ्ग्रहात् ‘पञ्च' इत्यादेशान्तरम् । ॥ इति विभागग्रन्थः ।। १४ ISROSCRemessassantse ळालन
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy