SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ दोषः । प्रकृतवस्त्वंशग्राहित्वमपि दुर्नयेऽतिव्याप्तमेवेति तदितरांशाप्रतिक्षेपी' इति । सप्तभङ्गात्मकशब्दप्रमाणप्रदीर्घसन्तताध्यवसायैकदेशे अतिव्याप्तिवारणाय 'अध्यवसाय' पदम् । रूपादिग्राहिणि रसाद्यप्रतिक्षेपिणि अपायादिप्रत्यक्षप्रमाणे अतिव्याप्तिवारणाय 'विशेष' पदम् । भाष्यकृत्प्रतिपादित-नयलक्षणानि : "नयाः प्रापकाः, साधकाः, निर्वर्तकाः, निर्भासकाः, उपलम्भकाः, व्यञ्जका इत्यनान्तरम्" इति भाष्यम् ।। (१.३५) अत्र प्रापकत्वं - प्रमाणप्रतिपन्न-प्रतियोगिप्रतियोगिमद्-भावापन्न नानाधर्मकतरमात्रप्रकारकत्वम् । साधकत्वं तथाविधप्रतिपत्तिजनकत्वम् । निर्वर्तकत्वं अनिवर्तमाननिश्चितस्वाभिप्रायकत्वम् । निर्भासक्रत्वं शृङ्गग्राहिकया वस्त्वंशज्ञापकत्वम् । ... उपलम्भकत्वं प्रतिविशिष्टक्षयोपशमापेक्षसूक्ष्मार्थावगाहित्वम् । . व्यञ्जकत्वं च प्राधान्येन स्वविषयव्यवस्थापकत्वम् । ...एवं च पदार्थं प्रतिपादयन्नपि भाष्यकारस्तत्त्वतो लक्षणान्येव सूत्रितवान् । 'विभागग्रन्थः : . . द्वौ मूलभेदी - द्रव्यार्थिकः पर्यायार्थिकश्च । द्रव्यार्थिकनयलक्षणम् : तत्र 'द्रव्यमात्रग्राही नयो द्रव्यार्थिकः' ।। अयं हि द्रव्यमेव तात्त्विकमभ्युपैति, उत्पाद-विनाशौ पुनरतात्त्विको, आविर्भावतिरोभावमात्रत्वात् । नयामृतम् मतमNNNNNNAMINANINNINNINNNNN డబ్బులు త లలు బడా బడా బడా బడా బడా బడా బడా బడా బడా .
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy