________________
श्रीवीरशासने मुख्यतः परिणतिचक्रस्यैव भावधर्मत्वेनांगीकारात् तेषां ऋजुसूत्रः द्रव्यनये एव । धर्मयोधर्मिणो धर्मधर्मिणोश्च प्रधानोपसर्जनारोपसङ्कल्पांशादिभावेनानेकगमग्रहणात्मको नैगमः । सत्चैतन्यमात्मनीति धर्मयोः, गुणपर्यायवत् द्रव्यमिति धर्मधर्मिणोः, क्षणमेकं सुखी विषयासक्तो जीव इति धर्मधर्मिणोः, सूक्ष्मनिगोदीजीवः सिद्धसमानसत्ताक: अयोगिनः संसारीति अंशग्राही नैगमः, (७.७८.९.१०) धर्मद्वयादीनामेकान्तिकपार्थक्याभिसन्धि:गमाभासः । (७.११) यथाऽऽत्मनि सत्त्वचैतन्ये परस्परं भिन्ने । (७.१२) ।
सामान्यमातग्राही सत्तापरामर्शरूपः-सङ्ग्रहः (७.१३)। स परापरभेदात् द्विविधः । तत्र शुद्धद्रव्यसन्मात्रग्राहकः परसंग्रहः, चेतनालक्षणो जीवः इत्यपरसङ्ग्रहः । सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणः सङ्ग्रहाभासः (७.१७) । सङ्ग्रहस्यैकत्वेन. 'एगे आया' इत्यभिज्ञानात् सत्ताद्वैत एव आत्मा, ततः सर्वविशेषाणां तदितराणां जीवाजीवादिद्रव्याणामदर्शनात् द्रव्यत्वादिन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः (७.१९) धर्माधर्माकाशपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादि (७.२०) द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान् निन्हनुवानस्तदाभासः (७.२१)यथा द्रव्यमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरिति । (७.२२) इति संग्रहः । ।
संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः, (७.२३) यथा यत् सत् तत् द्रव्यं पर्यायो वेत्यादि (७.२४) यः, पुनस्पारमार्थिकं द्रव्यपर्यायप्रविभागमभिप्रेति स व्यवहाराभासः, (७.२५) यथा चार्वाकदर्शनमिति (७.२६) व्यवहारदुर्नयः ।
ऋजु वर्तमानक्षणस्थायि पर्यायमात्रप्राधान्यतः सूत्रयन् अभिप्रायः ऋजुसूत्रः(७.२८) । ज्ञानोपयुक्त: ज्ञानी, दर्शनोपयुक्तः दर्शनी, कषायोपयुक्तः कषायी, समतोपयुक्तः सामायिकी, । वर्तमानापलापी तदाभासः यथा तथागतमतम् (७.३१) इति ।।
एकपर्यायप्रागभावेन तिरोभाविपर्यायग्राहकः शब्दनयः, कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः, (७.३२) जलाहरणादिक्रियासमर्थ एव घटः । न मृत्पिण्डादिः । तत्त्वार्थवृत्तौ शब्दवशादर्थप्रतिपत्तिः तत्कायें धर्मे वर्तमानवस्तु
नयामृतम्
STDCUPDATCASTRASTRICASEASOकाजलजलजलकन्या