________________
तथा एकपर्यायाणां सङ्करः पर्यायसङ्करे च वस्तुसङ्करो भवत्येवेति मा भूत्संकरदोष:, अतः पर्यायान्तरानपेक्ष एव समभिरूढनय इति ।।
एवं जह सद्दत्थो संतो भूओ तदत्रहाभूओ । तेणेवंभूयनओ, तद्दत्थपरो विसेसेणं ।। (विशे. २२५१ )
एवं यथा घट चेष्टायामित्यादिरूपेण शब्दार्थो व्यवस्थितः 'तहत्ति', तथैव यो वर्त्तते घटादिकोऽर्थः स एवं सन् भूतो विद्यमानः “ तदन्नहाभूओत्ति” यस्तु तदन्यथा शब्दार्थोल्लंघनेन वर्तते स तत्त्वतो घटाद्यर्थोपि न भवति किंत्वभूतोऽविद्यमानः येनैवं मन्यते तेन कारणेन शब्दनयसमभिरूढनयाभ्यां सकाशादेवंभूतनयो विशेषेण शब्दार्थतत्परः । अयं हि योषिन्मस्तकारूढं जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टमानमेव घटं मन्यते, न तु गृहकोणादिव्यवस्थितं अचेष्टनादित्येवं विशेषतः शब्दार्थतत्परोऽयमिति ।
वंजणमत्थेणत्थं च वंजणेणोभयं विसेसेइ ।।
जह घडसद्दं चेट्ठावया तहा तंपि तेणेव ।। (विशे. २२५२)
व्यज्यते अर्थोऽनेनेति व्यञ्जनं वाचकः शब्दो घटादिस्तं चेष्टावता एतद्वाच्येनार्थेन विशिनष्टि स एव घटशब्दो यश्चेष्टावन्तमर्थं प्रतिपादयति, नान्यम्, इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः । तथार्थमप्युक्तलक्षणमभिहितरूपेण व्यञ्जनेन विशेषयति, चेष्टापि सैव या घटशब्दवाच्यत्वेन प्रसिद्धा योषिन्मस्तकारूढस्य जलाहरणादिक्रियारूपा, न तु स्थानभरणक्रियात्मिका, इत्येवमर्थं शब्देन नैयत्ये स्थापयतीत्यर्थः । इत्येवमुभयं विशेषयति, शब्दमर्थेनार्थञ्च शब्देन नैयत्ये स्थापयतीत्यर्थः । एतदेवाह-यदा योषिन्मस्तकारूढश्चेष्टावानर्थो घटशब्देनोच्यते स घटलक्षणोऽर्थः स च तद्वाचको घटशब्दः अन्यदा तु वस्त्वंतरस्येव तचेष्टाभावादघटत्वं, घटध्वनेश्चावाचकत्वमित्येवमुभयविशेषक एवंभूतनय इति ।।
1
एवमेव स्याद्वादरत्नाकरात् पुनर्लक्षणत उच्यते । नीयते येन श्रुताख्यप्रामाण्यविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः (प्रमा. ७.१) । स्वाभिप्रेतादंशादपरांशापलापी पुनर्नयाभासः (७.२) । स समासतः द्विभेदः द्रव्यार्थिकः पर्यायार्थिकः । आद्यो नैगमसंग्रहव्यवहारऋजुसूत्रभेदाचतुर्द्धा । केचित् ऋजुसूत्रं पर्यायार्थिकं वदन्ति चेतनां [रां ? ] शत्वेन विकल्पस्य ऋजुसूत्रे ग्रहणात् ।
नयामृतम्
(१४२
Scosco