SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ नैगमस्रधा - भूतभाविवर्तमानकालभेदात् । अतीते वर्तमानारोपणं यत्र स भूतनैगमः । यथा अद्य दीपमालिकायां अमावास्यायां महावीरो मोक्षं गतः । भाविकाले वर्तमानारोपणं यत्र स भाविनैगमः । यथा अर्हन् सिद्ध एव । कर्तुमारब्धं इषनिष्पन्नं अनिष्पन्नं वा वस्तु निष्पन्नवत् कथ्यते यत्र स वर्तमान नैगमः । यथा-ओदनं पच्यते । नैगमस्त्रेधा । सङ्ग्रहो द्विविधः । सामान्यसङ्ग्रहो यथा-सर्वाणि द्रव्याणि परस्परमविरोधीनि । . विशेषसङ्ग्रहो यथा सर्वे जीवाः परस्परमविरोधिनः । सङ्ग्रहोऽपि द्वधा । व्यवहारो द्विविधः । सामान्यसङ्ग्रहभेदकव्यवहारो यथा - द्रव्याणि जीवाजीवाः । विशेषसङ्ग्रहभेदकव्यवहारो, यथा जीवाः संसारिणो मुक्ताश्च । व्यवहारोऽपि द्वधा ।। ऋजुसूत्रोऽपि द्विविधः । सूक्ष्मऋजुसूत्रो यथा-एक समयावस्थायी पर्यायः । स्थूलऋजुसूत्रो यथा-मनुष्यादि पर्यायाः तदायुःप्रमाणं कालं तिष्ठति । ऋजुसूत्रोऽपि द्वधा ।। शब्द-समभिरूद्वैवम्भूताः प्रत्येकमेकैका नयाः । .. शब्दनयो यथा-दारा-भार्या कलत्रं । जलमापः । समभिरुढ नयो यथा- गोः पशवः । । एवम्भूतनयो यथा-इन्दतीति ईन्द्रः । उक्ता अष्टाविंशतिर्नयभेदाः ।। उपनयभेदा उच्यन्ते । - 97L नयामृतम् CateGCDASHIANDER ळानजनक
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy