SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ दुःखान्यपाराण्यनुभूय यत्र शरीरभाजो जनिमाप्नुवन्ति । विलोक्य तत् स्थानकमेव भूया हृष्यन्ति. हा! दारुण एष कामः१०४॥ भवेन्मतिश्चेद् विषयानुषङ्गाऽतिरेकतः शाम्यति कामवेगः । तदेतदज्ञानविजृम्भितं ते बहिर्कतेनेव हि वर्धते मः ॥ १.०५ ॥ . प्रतिष्ठिता यत्र शरीरशक्तिरधिष्ठिता यत्र धियां विकासः। ... व्यवस्थिता यत्र सुरूप-कान्तिथि प्रतिघ्नन्ति जडास्तदेव १०६।। वैराग्यपीयूषरसेन धौतमप्याशु चतो मलिनं क्षणात् स्यात् । विकार हेतौ निकट प्रयाते. कामी बलीयांश्चपलं च चेतः ॥१०॥ किं तत्र, सिंहापरि चाऽऽस्य देशाटनप्रतिज्ञापरिपुरणं यत् । *विकार हेतौ सति विक्रियन्तं न ये, त एय प्रभयो यथार्थाः ॥१०॥ अपि त्रिलोकेऽस्खलितप्रतापं किं वर्णयामा मदनं पिशाचम। महात्मनोऽपि स्फुरितप्रवाधान योऽग्रे स्त्रियाः माञ्जलिकानकार्षीत् ॥१.०९॥ मनो द्रढीयः प्रविधाय सत्वप्रतिष्ठवृत्तिर्विकस द्विवेकः । अध्यात्मचिन्तां विदधद भवेत् किमस्य कुर्याद मदनः शिखण्डी? ॥११०॥ यथा मनःसारथिरिन्द्रियाश्वान् प्रयुक्त एवं विषयेषु यान्ति। निपातयत्याशु च तत्र जीवमतोऽधिकः कः परतन्त्रभावः?||१११॥ स एव धीरां बलवान् स एव म एव विद्वान् स पुनर्मुनीन्द्रः। येनेन्द्रियाणामुपरि स्वसत्ता विस्तारिता मानस निर्जयेन ॥११२।। जितेन्द्रियं शान्तमनःप्रतिष्ठितं कषायमुक्तं ममताविवर्जितम् । उदासितारं समुपास्महे मुनि स एव सारं लभते स्म जीवनात्॥११३।। ससं वाञ्छन् सर्वत्रिजगति तदर्थ प्रयतते तथापि क्लेशोधान् सततमनुबोभीति विविधान् । * कुमारसम्भवगतश्लाकतृतीयपादन पूर्तिः। -
SR No.002242
Book TitleAzzattatattaloao
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherZZZ Unknown
Publication Year1938
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy