SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आचार्यवर्यश्रीअजितदेवसूरिमीमांसितं श्वेतपटता क्रियते मया) - वाक्यार्थविचारवादस्थानकम् ॥ इह हि नैयायिकमतानुसारिणा केनचिद्वादिना 'श्वेतपटता क्रियते मया' इति सोल्लुण्ठमुक्ते सति तत्प्रतिपक्षभूतेनान्येन निजबुद्धिविभवावबुद्धसिद्धसिद्धान्तसम्बन्धोद्धतवाक्यप्रबन्धसम्बन्धेन तद्वाक्यविकुट्टनार्थमिदमुच्यते - ... [समासचर्चा तथाहि - ‘वेतपटता क्रियते मया' इति वाक्ये श्वेतपट इति यदन्तरङ्गं पदं तत्र कतमः समासः ? [१] किं श्वेतश्चासौ पटश्चेति कर्मधारयः ?, [२] श्वेतः पटो यस्येति वा बहुव्रीहिः ?, [३] श्वेतेन पटेन सह वर्तत इति सहार्थतृतीयासमासो वा ?, [४] यद्वा द्वितीया-तृतीयातत्पुरुषौ ?, [५] आहोस्वित् श्वेताय पट इति चतुर्थीतत्पुरुषः ?, [६] किं वा श्वेतात्पटः श्वेतपट इति पञ्चमीलक्षणः ?, [७] अथवा श्वेतस्य पटः श्वेतपट इति षष्ठीरूपः ?, [८] उत श्वेते. पट श्वेतपट इति सप्तमीसमासः ?, [९] अथाऽव्ययीभाव-द्विगु-द्वन्द्वाः ? [१] तत्र न तावत्कर्मधारयः, यतस्तुल्यार्थतायां तस्य प्राप्तिः । ‘पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः' [ ] इति वचनात् । न चार्थतुल्यार्थता, यतः श्वेतशब्देन गुणः, पटशब्देन द्रव्यमुच्यते; द्रव्यगुणयोरत्यन्तं भेदः । 'द्रव्यगुण-कर्म-सामान्य-विशेष-समवायाः' [ ] इत्यादित्वत्सिद्धान्तश्रवणात् । [२] बहुव्रीहिरप्यनवकाशधर्मावगुण्ठित एव, तुल्यार्थताया अभावात् ।
SR No.002237
Book TitleMohonmulanvadsthanakam
Original Sutra AuthorN/A
AuthorJaysundarvijay, Mahabodhivjay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy