SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ २५ वादस्थानकम् योगोद्वाहन - देववन्दनादिविधानं भवता न कार्य, तत्रैवोक्तत्वात्तस्य । ___ अथ तृतीयः पक्षस्तदा समवसरण-पुस्तक-साधु-साध्वी-श्रावक-श्राविकासु वासनिक्षेपादि न कार्य, तद्रूपत्वात्तस्य । क्रियते चेत्तदा जिनेन किमपराद्धमिति । ततो 'द्रव्यस्तवानधिकारात् प्रतिष्ठायास्तद्रूपत्वेन यतेस्तत्र नाधिकारः' इति यदुच्यते तदसत्, तदधिकारित्वस्यापि प्रतिपादितत्वात् । किञ्च - पञ्चाशकेषु - "जिणभवण-बिंबठावण..." [६/३] “पइविन्जा. लहुं चेव"२ [७/४३] इति द्वयोः स्थानयोरिनन्तोक्तेः, प्रशमरतौ च . "चैत्यायतनप्रस्थापनानि......" [का० ३०५] इत्यत्रेनन्तनिर्देशात् साक्षादेव यतेः प्रतिष्ठेत्यप्युपन्यसन् मदीयपक्षपोषकत्वात्तुष्टिदानार्हो भवानिति । अथाऽऽगमेषु कल्प - निशीथ • आवश्यकेषु श्राद्धस्यैव साऽभिंहिताऽतस्तेनैव विधेयेति । १. दृश्यतां पत्र ४ । २. ...णिप्फाइऊण एवं जिणभवणं सुंदरं तहिं बिंबं विहिकारियमह विहिणा पइट्ठवेज्जा लहुं चेव ॥ ४३ ॥ ............। प्रतिष्ठापयेत् लघु = शीघ्रमेव, यदुक्तं - "निष्पन्नस्यैव खलु जिनबिंबस्योदिता प्रतिष्ठा तु । दशदिवसाभ्यन्तरतः सा च त्रिविधा समासेन ॥" [षोडशकेषु ८/१] इति, चैवेत्यवधारणार्थः । इति गाथार्थः ॥ ४३ ॥ - श्रीअभय० वृत्तौ । ३. दृश्यतां पत्र ४ ।
SR No.002237
Book TitleMohonmulanvadsthanakam
Original Sutra AuthorN/A
AuthorJaysundarvijay, Mahabodhivjay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy