SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ मोहोन्मूलन इत्यादिवदेतन्न वस्तुसत्तासमाविष्टमपि त्वभिधेयसत्तासमाविष्टमिति न तेन भव्यजनप्रतिबोधमन्तरेण बहिर्व्यवहारः साध्यतेऽतः कथं तद्बलेन गृहिणः साधोर्वा प्रतिष्ठा ? १४ अथवा दमयन्त्यादिषूपमितिपर्यन्तेषु योऽयं प्रतिष्ठाविधिः स किं विधिवादेन प्रमाणं चरितानुवादेन वा ? तत्र न विधिवादेन; प्रतिष्ठाविधेस्तत्राऽनुक्तत्वात् । किमेवमुक्तमित्याह - 'उपमा' उपमितिः एवकारार्थत्वात् तत: उपमैव, 'एषा' अनन्तरोक्ता 'कृता' विहिता 'भवियजणविबोहणट्टाए' त्ति प्रतीतमेव । यथेह किशलयानि पाण्डुपत्रेणानुशिष्यन्ते तथाऽन्योऽपि यौवनगर्वितोऽनुशासनीय:, तथा चैतदनुनादिना वाचकेनावाच ‘परिभवसि किमिति लोकं जरसा पंरिजर्जरीकृतशरीरम् । अचिरात् त्वमपि भविष्यसि यौवनगर्वं किमुद्वहसि ? ।। ' ..... ॥ ३०९ ॥ श्रीशान्तिसूरिकृतवृत्तौ । 'जह तुब्भे' इत्यादि, वृक्षात्पतता केनचिज्जीर्णपत्रेण किशलयानाश्रित्योक्तं, किं तद् ? उच्यते - श्रृणुत भो उद्गच्छत्कोमलपत्रविशेषरूपाणि किशलयान्यवहितानि भूत्वा, वृक्षात्पतत् मल्लक्षणं पाण्डुपत्रं युष्माकं 'अप्पाहेइ' इति कथयति, किं तदित्याह 'जह तुब्भे तह अम्हे' त्ति, यथा पुष्पदभिनवस्निग्धकांन्तीनि कमनीयकामिनीकरतलस्पर्शलक्ष्मीकानि सकलजनमनोनेत्रानन्ददायीनि साम्प्रतं भवन्ती दृश्यन्ते तथा वयमपि पूर्वमास्मेति क्रियाध्याहारः, यथा च परिजीर्णपर्यन्तादिस्वरूपाणि साम्प्रतं वयं वर्त्तेमहि यूयमपि निश्चितं कालेन तथा भविष्यथ इति न काचित् स्वसमृद्धौ गर्वबुद्धिः परासमृद्धौ तु हेलामतिर्विधेया, अनित्यत्वात्सकलसमृद्धिसम्बन्धानामिति भावः ॥ १२१ ॥ नन्वलौकिकमिदं यत्पत्राणि परस्परं जल्पन्ति, सत्यमित्याह - ' नवि अत्थि' गाहा सुगमा, नवरं वृक्षपत्रसमृद्धयसमृद्धिश्रवणतोऽनित्यतावगमेन भव्यानां सांसारिकसमृद्धिषु निर्वेदो यथा स्यादित्यसद्भूतोऽपि पत्राणामिहालाप उक्त इति भावः |.... || १३२ ॥ श्रीहेमचन्द्रसूरिकृतवृत्तौ । -
SR No.002237
Book TitleMohonmulanvadsthanakam
Original Sutra AuthorN/A
AuthorJaysundarvijay, Mahabodhivjay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy