SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ मोहोन्मूलन “जिणभवणविंबठावणजत्तापूया य सुत्तओ विहिणा । दव्वत्थओत्ति नेयं भावत्थयकारणत्तेण" [ ६/३ ] तथा प्रशमरतौ च - "चैत्यायतनप्रस्थापनानि कृत्वा च शक्तितः प्रयतः । पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्याः ॥"२ [ ३०५ .] इति साधोव्यस्तवेऽनधिकारात्तेनैव सा कार्या, द्रव्यस्तवरूपत्वात्तस्याः। कल्पेऽपि - "कोइ सावओ जिणपडिमाए पढमं पतिट्ठाणं करेइ" इत्येकस्यां चूर्णी, [ बृहत्कल्पभाष्य गा० १७९२ विशेषचूर्णी ] व्याख्या - जिनस्याहतो भवनं च गृहं, बिम्बं च प्रतिमा, स्थापनं च प्रतिष्ठा, यात्रा चाष्टाह्निकामहिमा, पूजा च पुष्पाद्यर्चनम्, आदिर्यस्य जिनगुणगानादेस्तजिनभवनबिम्बस्थापनयात्रापूजादि । द्रव्यस्तव इति ज्ञेयमिति योगः । तच्च न यथाकथञ्चिदित्याह - सूत्रत आगममाश्रित्य, तदपि विधिना “जह रेहइ तह सम्मं" इत्यादिना विधानेन, द्रव्यस्तवो - भावस्तवकारणभूतपूजा, इतिशब्द उपप्रदर्शनार्थः, ज्ञेयं - ज्ञातव्यं, केन हेतुनेत्याह - भावस्तवकारणत्वेन - चरणप्रतिपत्तिरूपभावस्तवहेतुत्वात् । द्रव्यशब्दो ह्यत्र कारणपर्यायः । इति गाथार्थः ॥ ३ ॥ - श्रीअभयदेवप्रिकृतवृत्तौ । २. चैत्यायतनप्रतिष्ठापनानि - बिम्बगृहप्रतिष्ठाः, कृत्वेत्यादिपूर्वक्रियाणां सिद्धिमेष्यती त्युत्तरक्रियया सम्बन्धः । चाः समुच्चयार्थाः । कथं ? शक्तितः प्रयत: - आदरवान्, पूजाश्च कृत्वेति सम्बन्धः । कीदृशी: ? गन्धमाल्याधिवासधूपप्रदीपाः कृतद्वन्द्वा आद्या यासां तास्तथा ताः कर्मतापन्ना इति ॥ ३०५ ॥ - श्रीहरिभद्रस्कृितवृत्तौ ।
SR No.002237
Book TitleMohonmulanvadsthanakam
Original Sutra AuthorN/A
AuthorJaysundarvijay, Mahabodhivjay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy