SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ १. २. श्री अजितदेवसूरिप्रशस्तिः तस्याभवन्नजितदेवमुनीन्द्रवादिश्रीदेवसूरिवृषभप्रमुखा विनेयाः । आद्यादभूद्विजयसिंहगुरुर्गरीयान् निस्सङ्गतादिकगुणैरनिशं वरीयान् ॥२४॥ श्री गुणरत्नसूरिकृतक्रियारत्नसमुच्चयप्रशस्त्याम् । तस्मादभूदजितदेवगुरु४रर्गरीयान्, प्राच्यस्तपः श्रुतनिधिर्जलधिर्गुणानाम् । ॥७३॥ - श्रीमुनिसुंदरसूरिविरचितगुर्वावल्याम् । ३. तथा श्रीमुनिचंद्रसूरिशिष्याः श्रीअजितदेवसूरि – वादिश्रीदेवसूरिप्रभृतयः ॥ ४१ - एगुआलीसोत्ति, श्रीमुनिचंद्रसूरिपट्टे एकचत्वारिंशत्तमः श्रीअजित - देवसूरिः । तत्समये वि० चतुरधिकद्वादशशत १२०४वर्षे खरतरोत्पत्तिः। तथा वि० त्रयोदशाधिके द्वादशशत १२१३वर्षे आंचलिकमतोत्पत्तिः । वि० षट्त्रिंशदधिके १२३६ सार्धपौर्णिमीयकोत्पत्तिः ।। वि० पंचाशदधिके १२५० ‘आगमिकमतोत्पत्तिः । श्रीवीरात् द्विनवत्यधिकषोडशशत १६९२ वर्षे बाहडोद्धारः ।।छ।।१३। - महो० श्रीधर्मसागरगणिकृतस्वोपज्ञतपागच्छपट्टावल्याम् । - ૨૯ - निर्जीयते स्म क्वचनापि नाऽयं कृतोपसर्गैरपि देववर्गैः । इतीव नाम्न भुवि विश्रुतेन जज्ञेऽस्य पट्टेऽजितदेवसूरिः ॥ १०५ ॥ श्रीदेवविमलगणिकृतहीरसौभाग्यमहाकाव्ये चतुर्थे सर्गे । - मुनिचन्द्रमुनिस्ततोऽद्भुतोऽथाऽजितदेवश्च तदन्तिषद्वरेण्यः । अपरः पुनरस्य शिष्यमुख्यो भुवि वादी विदितश्च देवसूरिः ॥ ११ ॥ महो० श्रीविनयविजयगणिकृतलोकप्रकाशप्रशस्त्याम् ।
SR No.002237
Book TitleMohonmulanvadsthanakam
Original Sutra AuthorN/A
AuthorJaysundarvijay, Mahabodhivjay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages100
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy