________________
अचम सगः
भट्टारक-सकलीति-विरचितं
यशोधरचरित्रम्
प्रथम सर्गः श्रीमन्तं वृषभं वन्दे, वृषदं त्रिजगद्गुरुम् ।। अनन्तमहिमोपेतं, धर्मसाम्राज्यनायकम् ॥१॥ महावीरं जगन्नाथं, धर्म-तीर्थ-प्रवर्तकम्। कर्मशत्रुजये वीरं, स्तुवेऽनंतगुणार्णवम् ॥२॥ जितागतीन जिनान् शेषान, विश्वलोकहितोद्यतान् ।' धर्मकर्त न्नमस्यामि, भक्त्या प्रारब्ध सिद्धये ॥३॥ गौतमादीन् गणाधीशान् सर्वज्ञानाब्धिपारगान् । चैते मुनीन् कवीन् भक्त्या, साधुस्तद्गुणहेतवे ॥४॥ कृत्स्नसत्वहितां पूज्यां मुनीन्द्रैजिनवक्त्रजाम्। स्तोष्ये सरस्वतीमावां । यतीनां ज्ञानसिद्धये ॥५॥ मंगलार्थ नमस्कृत्य, देव-श्रुत-तपोधनान्। यशोधरमहीभर्तुर्जगत्याम तिपावनम् ॥६॥ चरित्रं प्रोपकाराय, स्वान्योन्नतिधर्मकारुणम्। . समासेन प्रवक्ष्येऽहं चाहिंसा वृषसिद्धये ॥७॥ यत्प्रोक्तं मुनिभिः पूर्व, सर्वसिद्धान्तपारगैः। तत्प्रोक्तं कथमस्माभिः, शक्यं ज्ञानलवान्वितैः॥८॥ तथापि तत्क्रमाम्मोजस्मरणार्पितपुण्यतः। ..: स्तोकं सारं प्रवक्ष्यामि तच्चरित्रं शुभावहम् ॥ ६॥
१. ग. वृषनायकं। . ३. घ. प्रारध्व। ५. क. ख. ग. घ. जनन्या सह। ७. ख. श्रावहम् ।
२. ग. हितोदितान् । ४. ग. वन्दे; घ. चेडे । ६. ख. वाहिंसा ।