________________
पन्चमः सर्गः वैरिचक्र जितं येन प्राक्चन्द्रेश च शांतिना। कर्मचक्रं पुनर्व्याने चक्रेणेव चिदेऽत्र तम् ॥२॥ अथास्ति विन्ध्यनामा गिरिस्तमो भयंकरः। .. मांसाशि पक्षिभिर्व्याघ्रादिभि धैिश्च हिंसकैः ॥२२ तत्राभवं भयूरीगर्भेऽहं दुःखनिधानके । प्रागजिताघपाकेन दीनः सर्वांगपीडितः ॥३॥ चिरं तत्रानुभूयाहं दुःखं घोरतरं ततः । कर्माधीनो मयूरः प्राशुचिद्वारेण निर्गतः ॥४॥ मथागत्य कुतश्चित्पापिनावां मारिताशु मे। मदंतिके सुखासीना लुब्धकेनेषु घातनः ॥५॥, . ततस्तां स्कंधमारोप्याशु स्वांके मां निधाय च । . सोऽगमत्माक्षिकग्रामेऽयोध्याया निकटे शुभे ॥६।। तत्र स्वगेहगर्तायां मां निक्षिप्य क्षुधातुरम् । तलारस्य गृहं गत्वा दत्त्वा तां तस्य चागतः ॥७॥ रिक्तायातो यतो धामं शास्तः सोऽधीः स्वभार्यया। नास्त्यद्य भक्षणं किंचित् या हि रंडा सुतामुतः ॥८॥ ततोपि मां गृहीत्वा स गत्वा रक्षकसन्निधिम् । स्वल्पमूल्येन तद्धस्ते विक्रीय स्वगृहं ययो॥६॥ रक्षितस्तेन यत्नेनाहं ममायं भविष्यति । यशोमति-महीभर्तुर्मत्वेति प्राभृतं शुभम् ॥१०॥
1. क.ख. ग. घ. अतिभयंकरः-मात्रादोषः । 2. क. ख. ग. प. निक्षिप्य माम् ।