________________
.
[है० ८.१.२५] प्रथमः सर्गः ।
जत्थच्छरस-मण-हरो वहूहि रमिरो वि अच्छर-समाहिं । दीहाऊ वि अदीहाउस-माणी सइ विवेइ-जणो ॥ १० ॥ कुसुम-धणू धणुह-धरो कउहा-मुह-मण्डणम्मि चन्दंमि।
रजं तमेग-छत्तं असंकमुवभुंजए जस्थ ॥ ११ ॥ भिसओ । सरओ । “ शरदादेरत् ” [१८] इति अन्त्यव्यञ्जनस्य अत् ॥ दिसाण । पाउस । “ दिक्प्रावृषोः सः" [ १९] ॥
१०. यत्र अप्सरोमनोहरः त्रिदशाङ्गनामानसावर्जकः अप्सरःसमाभिः देवीकल्पाभिर्वधूभिः कान्ताभिः सह रन्तापि रमणशीलोपि दीर्घायुरपि परिपूर्णजीवितव्योपि “ मूलविस ” इत्यादिसुगुरूपदेशवशप्रादुर्भूतानित्यत्ववासनावासितान्तःकरणत्वेन अदीर्घायुषम् आत्मानं मन्यते सदा विवेकिजनः युक्तायुक्तविमर्शकृल्लोकः ॥
अच्छरस । अच्छर । दीहाउ । अदीहाउस । “आयुरप्सरसोर्वा" [२०] इति सः॥
११. ककुम्मुखमण्डने चश्चकिरणनिकुरुम्बप्रकृतदिक्कान्तावदनविलेपने चन्द्रे कुसुमधनुः पुष्पधन्वा राज्यम् आधिपत्यं तत् सर्वलोकप्रसिद्ध सर्वोत्कृष्टं वा एकच्छत्रम् अद्वितीयातपत्रम् . अशङ्क निर्भय . यत्र उपभुनक्ति पालयति । तदा तदाज्ञोल्लङ्घनासमर्थत्वाजगत इति । . कउहा । " ककुभो हः '' [२१] इति हः ॥ धणू । धणुह । “धनुषो वा” [२२ ] इति वा हः ॥ रजं । "मोनुस्वारः"[ २३ ] इति मस्य अनुस्वारः । क्वचिद् अनन्त्यस्यापि । चन्दमि ॥
छत्तं असंकमुव । “वा स्वरे मश्च" [ २४ ] इति वा अनुस्वारः । पक्षे लुगपवादो मस्य मः । बाहुलकाद् अन्यस्यापि व्यञ्जनस्य मः । तमेग ॥
१C omits °वासिता.