________________
५१८
हेमचन्द्राचार्यविरचितं . [ ३.५४- ईद्भिस्भ्यसाम्सुपि ॥ ५४॥ राजनशब्दसंबन्धिनो जकारस्य भिसादिषु परतो वा ईकारो भवति । भिस् । राईहि ॥ भ्यसै । राईहि । राईहिन्तो । राईसुन्तो ॥ आम् । राईणं ॥ सुप् । राईसु । पक्षे । रायाणेहि । इत्यादि ।
आजस्य टा-ङसि-ङस्सु सणाणोष्वण् ॥ ५५ ॥ राजन्शब्दसंबन्धिन आज इत्यवयवस्य टाङसिङस्सु णा णो इत्यादेशापन्नेषु परेषु अण् वा भवति ॥ रण्णा राइणा कयं । रण्णो राईणो आगओ धणं वा ॥ टाङसिङस्विति किम् । रायाणो चिट्ठन्ति पेच्छ । वा ॥ सणाणोष्विति किम् । राएण । रायाओ । रायस्स ॥ .. .
पुंस्यन आणो राजवच्च ॥ ५६ ॥ पुंलिङ्गे वर्तमानस्यान्नन्तस्य स्थाने आण इत्यादेशो वा भवति । पक्षे । यथादर्शनं राजवत् कार्यं भवति ।। आणादेशे च अतः से?ः [ ३.२ ] इत्यादयः प्रवर्तन्ते । पक्षे तु राज्ञः जस्-शस्-ङसिङसां णो [३.५० ] टो णा [ ३.२४ ] इणममामा [ ३.५३ ] इति प्रवर्तन्ते । अप्पाणो । अप्पाणा । अप्पाणं । अप्पाणे । अप्पाणेण । अप्पाँहि । अप्पाणाओ । अप्पाणासुन्तो । अप्पाणस्स । अप्पाणाण ।.अप्पाणम्मि । अप्पाणेसु । अप्पाण-कयं । पंक्षे । राजवत् । अप्पा । अप्पो । हे अप्पा । हे अप्प । अप्पाणो चिट्ठन्ति । अप्पाणो पेच्छ ॥ अप्पणा । अप्पोहिं । अप्पाणो । अप्पाओ। अप्पाउँ । अप्पाहिः । अप्पाहिन्तो । अप्पा । अप्पासुन्तो ॥ अप्पणो धणं । अप्पाणं । अप्पे । अप्पेसु ॥ रायोणो । रायाणा । रायाणं । रायाणे । रायाणेण । रायाणेहिं । रायाणाहिन्तो । रायाणस्स । रायाणाणं । रायाणम्मि । रायाणेसु । पक्षे । राया । इत्यादि । एवं जुवाणो । जुवाण-जणो । जुआ ॥ बम्हाणो । बम्हा ॥ अद्धाणो ।
----
-
१ B राईहिं. २ B भ्यस् । राईहितो. ३ B °णाणेष्व'. ४ B राईणो. ५ B °णाणेष्वि. ६ A °णं । अप्पाणो । अप्पणो । अप्पाणेण. ७ B अप्पाणेहिं. ८ A °प्पा । अप्पाणो. ९ A चेटुंति. १० A °उ । अप्पेहि । अप्पा. ११ A धणं । अप्पे. १२ A रायणो. १३ A रायाणाहि. १४ A रायाणासु.. .