________________
हेमचन्द्राचार्यविरचितं [२.१६२• वैकादः सि सि इआ ॥ १६२॥ एकशब्दात्परस्य दाप्रत्ययस्य सि सिअं इआ इत्यादेशा वा भवन्ति ॥ . एकदा । एक्कसि । एक्कसि । एक्कइआ । पक्षे । एगया ॥
डिल्ल-डुल्लौ भवे ॥ १६३ ॥ भवेर्थे नाम्नः परौ इल्ल उल्ल इत्येतौ डितौ प्रत्ययौ भवतः ॥ गामिलिआ । पुरिल्लं । हेट्ठिल्लं । उवरिल्लं । अप्पुल्लं ॥ आल्वालावपी-. . च्छन्त्यन्ये ॥
स्वार्थे कश्च वा ॥ १६४॥ स्वार्थे कश्चकारादिल्लोल्लौ डितौ प्रत्ययौ वा भवतः ॥ क । कुकर्मपिञ्जरयं । चन्दओ। गयणयम्मि । धरणीहर-पक्खुब्भन्तयं । दुहिए राम-हिअयए । इहयं । आलेटुंअं । आश्लेष्टुमित्यर्थः ॥ द्विरपि भवति । बहुअयं । ककारोच्चारणं पैशाचिकभाषार्थम् । यथा । वतनके वतनकं समप्पेतून ॥ इल्ल । निजिआसोअ-पल्लविल्लेण । पुरिल्ला । पुरा पुरो वा ।। उल्ल । मह पिउल्लओ। मुंहुल्लं । हत्थुल्लो। पक्षे । चन्दो। गयणं । इह । आलेटुं । बहु । बहुअं । मुहं । हत्था ॥ कुत्सादिविशिष्टे तु संस्कृतवदेव कप सिद्धः ॥ यावादिलक्षणः . कः प्रतिनियतविषय एवेति वचनम् ॥
ल्लो नवैकाद्वा ॥ १६५ ॥ आभ्यां स्वार्थे संयुक्तो 'लो वा भवति ॥ नवल्लो । एकल्लो ॥ सेवादित्वात् कस्य द्वित्वे एकल्लो । पक्षे । नवो । एक्को । एओ।
उपरेः संव्याने ॥ १६६ ॥ संन्यानेर्थे वर्तमानादुपरिशब्दात् स्वार्थे ल्लो भवति ।। अवरिल्लो ॥ संव्यान इति किम् । अवरिं ॥ . १ B इआदेशा. २ A °एकइआ. ३ P°मरसपि०. ४ B°हियअए; A°हिअए. ५P आलेध्दुअं. ६ B °त्तूण, ७ P पुरिल्ला. ८ A महुल्लं. ९ B हत्थुल्लो. १. B °व कसि'; P कः. ११ B °नियत एवे°. १२ AB लो..१३ P अवरि.