________________
४४७
४७
१.१२६7 प्राकृतव्याकरणम् । • अदूतः सूक्ष्मे वा ॥ ११८॥ सूक्ष्मशब्दे ऊतोद् वा भवति ॥ सण्हं सुण्डं ॥ आर्षे । सुडमं ॥
दुकूले वा लश्च द्विः ॥११९ ॥ दुकूलशब्दे ऊकारस्य अत्वं वा भवति तत्संनियोगे च लकारो द्विर्भवति॥ दुअल्लं दुऊलं ॥ आर्षे दुगुल्लं ॥
ईर्वोद्वयूढे ॥ १२०॥ उद्वघूढशब्दे ऊत ईत्वं वा भवति ॥ उव्वीढं । उव्यूढं ।।
उर्ध-हनूमत्कण्डुय-वातूले ॥ १२१॥ एषु ऊत उत्वं भवति ॥ भुमया । हणुमन्तो । कण्डुअइ । वाउलो ।। - मधूके वा ॥१२२॥ मधूकशब्दे ऊत उद् वा भवति ।। महुअं महूअं ॥
इदेतौ नूपुरे वा ॥ १.२३॥ नूपुरशब्दे ऊत इत् एत् इत्येतौ वा भवतः ॥ निउरं नेउरं । पक्षे नूउँरें।। : ओस्कूष्माण्डी-तूणीर-कूर्पर-स्थूल-ताम्बूल-गुडूची-मूल्ये १२४ एषु ऊत ओद् भवति ॥ कोहण्डी कोहली । तोणारं । कोप्परं । थोरं । तम्बोलं । गलोई । मोल्लं ॥ . स्थूणा-तूणे वा ॥ १२५॥ · अनयोरुत ओत्वं वा भवति ॥ थोणा थूणा । तोणं तूणं ॥
ऋतोत् ॥ १२६॥ आदेर्ऋकारस्य अत्वं भवति ॥ घृतम् । घयं ॥ तृणम् । तणं ॥ कृतम् । कयं ।। वृषभः । वसहो । मृगः । मओ ॥ घृष्टः । घट्टो ॥ दुहाइअमिति कृपादिपाठात् ॥
१P उत्त्वं. २ B नूपुरं.