________________
ॐ ।। अथ प्राकृतम् ॥ १ ॥
अथशब्द आनन्तर्यार्थोधिकारार्थश्च ॥ प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वा प्राकृतम् । संस्कृतानन्तरं प्राकृतमधिक्रियते । संस्कृतानन्तरं च प्राकृतस्यानुशासनं सिद्धसाध्यमानभेदसंस्कृतयोनेरे तस्य लक्षणं न देश्यस्य इति ज्ञापनार्थम् । संस्कृतसमं तु संस्कृतलक्षणेनैव गतार्थम् । प्राकृते च प्रकृतिप्रत्ययलिङ्गकारकसमाससंज्ञादयः संस्कृतवद् वेदितव्याः ।। लोकाद् इति च वर्तते । तेन ऋ-ऋ-ल-लु-ऐ-औ-ङ-श-ष-विसर्जनीय- प्लुत-वैर्जो वर्णसमाम्नायो लोकाद् अवगन्तव्यः। ङ-बौ स्वर्वंर्ग्यसंयुक्तौ भवत एंव । ऐदौतौ च केषांचित् । कैतवम् । कैअवं ॥ सौन्दर्यम् | सौंअँरिअं ॥ कौरवाः । कौरवा ॥ तथा अस्वरं व्यञ्जनं द्विवचनं चतुर्थीबहुवचनं च न भवति ॥
बहुलम् ।। २ ।।
बहुलम् इत्यधिकृतं वेदितव्यम् आ शास्त्रपरिसमाप्तेः । ततश्च । क्वचित् प्रवृत्तिः क्वचिद् अप्रवृत्तिः क्वचिद् विभाषा क्वचिद् अन्यदेव भवति । • तच्च यथास्थानं दर्शयिष्यामः ॥
आर्षम् ।। ३ ।।
ऋषीणाम् इदम् आर्षम् । आर्षं प्राकृतं बहुलं भवति । तदपि यथास्थानं दर्शयिष्यामः । आर्षे हि सर्वे विधयो विकल्प्यन्ते ॥ मिथो वृत्तौ ॥ ४ ॥
दीर्घ -
वृत्तौ समासे स्वराणां दीर्घस्वौ बहुलं भवतः । मिथः परस्परम् ।। तत्र ह्रस्वस्य दीर्घः ॥ अन्तर्वेदिः । अन्ता - वेई || सप्तविंशतिः । सत्ता
१ P ॐ नमः सिद्धेभ्यः २ B°रं प्रा° ३ A प्राकृतानु ४ B योनेरिव. ५ B ' ज्यों. ६ PB 'वर्ग'. ७ AB सौअ ' ८ B था च अ.