________________
विषयानुक्रमः
xLili
५८ .
रागाद्यकलुषितचित्तस्य ब्रह्मपरस्य तस्मिन्नेव भवे निर्वाणप्राप्तिः । संतोषामृतेन विना सुखप्राप्तेरभावः। . ज्ञानदर्शनचारित्ररूपरत्नत्रयं विना मुक्तेरभावो भाण्डेन विना
क्रेतव्यवस्तुन इव । जिनागमालोकनं विना भवहानोपायमोक्षसंप्राप्त्युपाययोरभावः । चञ्चला संपत् ध्रुवं मरणमिति सर्वस्मिन् वदत्यपि न कस्यापि महा
मुनिसमागमसाध्यसंयमाभावः । मुक्तिमुखस्य साधनानि । यत्र. कुत्रापि स्थितौ जीवदयाया मुक्ति प्रति कारणत्वम् । तपसा सह संयमाद्यभावे साधुमध्ये गणनाया अभावः । धर्महीनादावपि दयां कृतवतोत्रैव सिद्धिः । मनसः सुस्थिरत्वकरणे संसारस्थितं विषण्णं प्रत्युपदेशः । रात्रिभोजनात्पापे पतनं ततः संसारे परिभ्रमणम् । तपःपरिपालनौत्सुक्यात्संसारे गमनागमनक्रियाया अभावः । जीवदयोपशमयोरेव कर्तव्यत्वं नान्यस्य कर्मणः । परिग्रहालीकभाषणे परित्यज्य उपशमस्य स्वीकर्तव्यत्वम् । शरीरजीवितयोरस्थिरत्वं ज्ञात्वाऽशुभभावस्त्याज्यः । श्रुतार्थस्य श्रवणे कर्णयोः श्रुतार्थस्य स्थिरीकरणे ह्रदयस्य च कृतार्थ- त्वम् । यस्य कर्णे जिनागमवचनमात्रमपि प्रविष्ठं तस्य त्वदीयं मदीयमिति · ममत्वाभावः । यावजीवं दमकरणे सिद्धलोकगमनम् । भद्रत्वादीनां सिद्धिं प्रति प्रशमादीनामुत्तरोत्तरमुच्यमानानां कारण
त्वम् । क्रोधमानमायाजाललोभानामन्तं कृत्वा निवर्तने निदेशः । संसारत्यागशिवसौख्यसंवेदनयोरतिनिश्चलं मनः कारणम् । चित्तादीनामनाकुलत्वादिकरणे निश्चलं ध्यानं कारणम् । यमुनादिनदीजले स्नानेपि शिवशर्मप्राप्त्यभावः । मनसि जिनमवतीर्ण कुर्वित्यादेशः । दयावतामेव निवृतिर्न वेषधारिणाम् । इति भाषाविनिमयेन परमतत्त्वं कथयित्वा नृपोरसि निजकण्ठ
मालां स्थापयित्वा मङ्गलं चोक्त्वा देवीगमनम् ।
८.
८१